SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३२ मल्लिनाथमहाकाव्ये ऊचे सा भगवानेष साधुः सुदर्शनाभिधः । यद्वार्ताभिः क्षणमिव दिनं निर्गम्यते मया ॥ ३८४ ॥ यद्येष तपसा क्षीणस्तथाऽप्यऽद्भुतरूपभाक् । भन्नोऽपि कलशो हैमो न तुल्यः कलशैः परैः ॥ ३८५ ॥ तदादेशात् ततः काचिद् गत्वा चेटी तदन्तिके । गर्भश्राद्ध्युपमानेन ववन्दे चरणौ मुनेः ॥ ३८६ ॥ उपोषिता मुनेऽस्माकं स्वामिनी श्वस्तनेऽहनि । इदानीं पारणां कर्त्ता तदायातु भवांस्ततः ॥ ३८७ ॥ ऋजुचेता महासत्त्वस्तया दर्शितवर्मना । भ्राम्यन् वेश्यागृहं प्रापदपरिज्ञातचर्यया ॥ ३८८ ॥ यथा यथा मुनिर्गहमविशन्मुनिचर्यया । तथा तथार्गलां चेटी ददाति म दुराशया ॥ ३८९ ॥ चलैर्नेत्राश्चलैः साधोश्चारित्रं कज्जलध्वजम् । विध्यापयितुमारेभे सा रम्भेव मनोहरा ।। ३९० ॥ यद्यपि व्रतवानस्मि तथापि मम विग्रहः । विग्रहो मूर्तिमान् जज्ञे धिग् मे सुन्दरमूर्त्तिताम् !! ३९१ ॥ ध्यात्वेति मौनमाधाय कायोत्सर्ग ददौ मुनिः । कायोत्सर्गाद् विलीयन्ते उपसर्गपरम्पराः ॥ ३९२ ॥ सकलं वासरं साधुः खेदितः कामजल्पनैः। तथापि ध्यानतोऽचालीत्कचिन्नैवाऽश्मपुत्रवत् ॥ ३९३ ॥ देवदत्तानिदेशेन रात्रौ साधुसुदर्शनः । परित्यक्तः पितृवने क्रीडत्कौशिकभीषणे ॥ ३९४ ॥ अथासौ व्यन्तरी तत्र क्रीडन्ती वीक्ष्य तं मुनिम् । पूर्ववैरं स्मृति प्रापावधिज्ञानप्रयोगतः ॥ ३९५ ॥ विचक्रे शीतलं वातं तुषारकणवर्षिणम् । येनास्माभिर्विदीर्येत किं पुनस्तादृशां तनूः ? ॥ ३९६ ॥ ततः शकुनिकारूपं विकृत्य व्यन्तरामरी ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy