________________
सप्तमः सर्गः।
२३१
तैरेव ताडितः शातैः कृपाणैः निष्कृपाऽऽशयैः ॥ ३७१ ॥ इत्थं निध्यायतस्तस्य समागात्पावनाकृतिः । सूरिः कोऽपि श्रुताम्भोधिसमुल्लासनचन्द्रमाः || ३७२ ॥ राज्ञा स पौरलोकैश्च वार्यमाणोऽपि सन्मतिः । संवेगादाददे दीक्षामन्तिके तस्य भावतः ॥ ३७३ ॥ अभयाsपि प्रभावं तं प्रभावन्तं निरीक्ष्य तम् । उद्बध्यात्मानमकरोज्जीवितत्यागमञ्जसा ॥ ३७४ ॥ | अथ पाटलिपुत्रस्य श्मशाने व्यन्तरामरी | अभूदुब्दन्धनाद्यैर्हि व्यन्तरत्वं प्रजायते ।। ३७५ ।।
यतः
-
उद्बन्धनाद् विषग्रासाद् रज्जुबन्धाद् हुताशनात् । सलिलस्य प्रवेशाच्च व्यन्तरत्वं प्रकीर्तितम् ॥ ३७६ ॥ चेद् विशुद्धं भवेचेत निधने कर्मलाघवात् । महादुःखनिधानेषु परथा नरकादिषु ।। ३७७ ॥ ( युग्मम् )
नरनाथभयोद्भ्रान्ता तथा धात्र्यपि पण्डिता । चम्पापुर्या विनिःसृत्य पाटलीपुत्रमास्थिता ।। ३७८ ॥ . देवदत्ताभिधानाया वेश्याया गृहमागता । रूपं सुदर्शनस्योच्चैः सदा व्याख्यातवत्यऽसौ || ३७९ ॥ तद्गुणश्रवणादेषा जातरागा दिने दिने । कृष्णपक्षेन्दुलेखेत्र भजते स्म परिक्षयम् ॥ ३८० ॥ ततः सोऽपि महासत्त्वो गीतार्थः श्रुतपारगः । एकाकी प्रतिमां धीमान् भेजे गुरुनिदेशतः ॥ ३८१ ॥ विहरन्मेदिनीपीठे तपःशोषित विग्रहः । समस्तलब्धिसंपूर्णः समागात् पाटलीपथे ॥ ३८२ ॥ सिद्धान्तोक्तविधानेन भिक्षायै पर्यटनसौ ।
निरक्ष्यत तया धात्र्या देवदत्तासमेतया ।। ३८३ ॥