________________
२३०
मल्लिनाथमहाकाव्येविनने सव्यलोकेऽपि महात्मानः कृपापराः ॥ ३५८ ॥ द्विोन्द्रे चेदमुं मूढ ! स्वयं धातासि सन्मतिम् । मौलौ दधासि चेच्छत्रं छत्रधारकवत्स्वयम् ॥ ३५९ ॥ तदा ते जीवितं राज्यं कृतरक्षं भविष्यति । अन्यथा ते शिलापातान्निातो भावता द्रुतम् ॥ ३६० ॥ श्रुत्वेदं भीतभीतोऽसौ सपौरः पादचारतः । वध्यभूगीमनुप्राप्तो गृहीतमाभृतोत्करः ।। ३६१ ।। श्रेष्ठिन्निरपराधोऽपि खेदितो यद्विमानतः। तत् क्षमस्व भवाशेषजीवानां जीवितप्रदः ॥ ३६२ ।। तत्प्रभावादिहाऽऽयान्ति देवता अपि पत्तिवत् । अस्मादृशाः कियन्मात्रा निर्विकारमतल्लिके!? ।। ३६३ ।। कुम्भिपृष्ठे समारोप्य श्रेष्ठिनं श्रेष्ठितायुतम् । बभार स स्वयं मूर्षि विमलातपवारणम् ॥ ३६४ ।। पौरैः प्रमुदितः साकं गायमानावदानभृत् । बन्दिभिः स्तूयमानस्तु वर्ण्यमानः कवीश्वरैः ।। ३६५ ॥ उद्घोष्यमाणमङ्गल्यो वृद्धस्त्रीभिः पदे पदे । खगेहेऽगाद् वणिग्नेता भवरागविरागवान् ॥ ३६६ ॥
(युग्मम् ) भूमीपतिनित्य स्खमावासमगमत् ततः। . मनोरमामनुज्ञाप्य देवताऽपि तिरोदधे । ३६७ ॥ क्षणाद् बन्धः क्षणात् पूजा क्षणाद् दुःखं क्षणात् सुखम् । क्षणिकेऽस्मिन् भवे सर्व दृश्यते क्षणिकं किल ॥ ३६८ ॥ स्वातिप्रांता यथा मेघा द्विरदान्ता यथा श्रियः । तथा राजप्रसादाच विपदन्ता असंशयम् ॥ ३६९ ॥ यकाभ्यामेव कर्णाभ्यां श्रुतं स्वगुणवर्णनम् । रे! पारदारिक! इति ताभ्यामेव हि शुश्रुवे ॥ ३७० ॥ पैरेव विनयोत्कर्षात् पादा मे वन्दिताश्विरम् । ...