________________
- सप्तमः सर्गः।
२२९ तदद्य कुरु सांनिध्यं मातः! शासनदेवते! ।। ३४५ ॥ इति व्याकृत्य नासाग्रन्यस्तनेत्रा सदाहती। कायोत्सर्ग विधत्ते स्म निश्चलाङ्गी शिला यथा ॥ ३४६।।
(त्रिभिर्विशेषकम् ) इतश्चाहत्पवचनदेवी तस्याः प्रभावतः।। अगाद् वध्यभुवं तत्र यत्राऽतिष्ठत् सुदर्शनः ॥ ३४७ ॥ इतः सुदर्शनः श्रेष्ठी शूलायां विनिवेशितः । शूला सिंहासनं जज्ञे देवतायाः प्रभावतः ।। ३४८॥ ततश्च कृष्टाः कोशेभ्यो निस्त्रिंशा निस्त्रपैस्तदा । मुक्ताश्च श्रेष्ठिनः कण्ठपीठे नगररक्षकैः ॥ ३४९ ॥ देवतायाः प्रभावेण प्रहारास्ते समन्ततः। स्रग्माल्यरूपिणो जाता भ्रमभृङ्गमनोरमाः ।। ३५० ।। ततो रक्षानिबद्धोऽसौ कण्ठपीठे तलाधिपः। हाररूपोऽभवत्सोऽपि चलत्तरलनायकः ।। ३५१ ॥ उपरिष्टात् ततः पुर्या विचके देवता शिलाम् । पुरीपिधानवत् कालचक्रवद्यमवक्त्रवत् ॥ ३५२ ॥ तामालोक्य भयोद्भ्रान्तः सपौरोऽजनि भूपतिः । सर्वासामेव भीतीनां मरणं हि महाभयम् ॥ ३५३ ।। सागसं पृथिवीपालं सपोरं सपरिच्छदम् ।। एषा हन्मि शिलापातादिति शृण्वन्तु मे वचः ।। ३५४ ॥ स्मरन्तु देवतां पौरा युष्मासनवारिणीम् । क्रुद्धाऽहं सर्वथा दोषरहितश्रेष्ठिनो वधात् ।। ३५५ ।। रे! रे! धरेश! नो वेत्सि स्वभार्याया विजृम्भितम् । यदस्य चिन्तितं मूढ ! तत्ते पततु मस्तके ॥ ३५६ ।। इति दैवं वचः श्रुत्वा वज्रपातसहोदरम् ।। मृत्युभीतो नृपः प्राह स्वामिन्यागः सहस्व मे ॥ ३५७ ॥ अविमृश्य विधाताऽस्मि क्षन्तव्यो दुर्नयो मम । ..