________________
२२८
मल्लिनाथमहाकाव्येरे रक्षकाः ! बलादेष मां कामयितुमुद्यतः । दारयति नखैस्तीक्ष्णैः शीघ्रं धावत धावत ॥ ३३२ ।। श्रुत्वेदं सत्वरं तत्र समागात्पृथिवीपतिः। अमुं विश्वासभवनमपश्यच्च स्वचित्तवत् ॥ ३३३ ॥ अपृच्छच्च प्रयत्नेन वृत्तान्तस्तव चैष कः ?। सोऽप्यस्थाद् मौनभाक् कामं विशेषेण समाहितः॥३३४॥ नाऽदासीदुत्तरं किश्चिदेष क्रुद्धः क्षितीश्वरः । शूलापोतो विधातव्य एष इत्यादिशन्नरान् ।। ३३५॥ रे ! पारदारिकेत्युप्रैः संदंशैरिव भाषितैः । तस्य श्रोत्रपुटीमन्तर्भेदयामासुराशु ते ।। ३३६ ॥ न्यस्तोऽसौ रासभे पृष्ठे कण्ठन्यस्तशराववान् । निम्बपत्रैः कृतोष्णीषः कजलैलिप्तविग्रहः ॥ ३३७ ॥ गाढं विडम्बयित्वासौ भ्रामयित्वा महापुरे । नीतः पितृवने श्रेष्ठी स्मरन् पश्चनमस्कृतिम् ।। ३३८ ॥ इतश्च श्रेष्ठिनः पत्नी महासती मनोरमा । अशृणोद् दुःश्रवां वार्ता तदीयां वज्रपातक्त् ॥ ३३९ ॥ : सर्वज्ञशासनाभिज्ञः परदारपराङ्मुखः।। पट्टदेवीं महीभर्तुः श्रेष्ठी प्रार्थयते कथम् ॥ ३४०॥ किञ्चित्संभाव्यते देव्याः कूटं कूटनिधिर्हि सा । असंपूर्णे निजार्थे हि किं न कुर्युमलीमसाः ? ॥ ३४१ ॥ अन्तःशून्या बहीरम्या नारी वारीच देहिनाम् । लौल्यादास्वायमानोच्चैनिर्मिमीत गलग्रहम् ॥ ३४२ ।। लज्जाकोशविनिर्मुक्ता स्त्री शस्त्रीव भयङ्करा। किं न धत्ते महामोहहस्तन्यस्ता विवेकिनाम् ॥ ३४३॥ विचिन्त्येति कृतस्नाना वसाना श्वेतवाससी । पूजयित्वाहतो बिम्ब निर्विलम्ब मनोरमा ॥ ३४४ ॥ योष परदारेषु निर्विकारः सुदर्शनः। ..