________________
सप्तमः सर्गः ।
२२७
क्षोभयितुं समारंभे कटाक्षविशिखैः शितैः ।। ३१८ ॥ ! निजसंग सुधास्वादकलनां ललनाप्रिय ! | दयां विधाय संधेहि स्वर्गसौख्यमहाद्भुतम् ।। ३१९ ॥ किमिति व्रतकष्टानि कुरुषे मूढमानस ! ? । या व्रतैरपि दुष्प्रापा सा प्राप्ताऽहं त्वयाऽधुना ॥ ३२० ॥ अनाथामिव मां हन्यमानां मदनमार्गणैः । कस्मादुपेक्षसे नाथ ! सदयोsस्यऽवलाजने || ३२१ ॥ 1 त्वां स्मरन्त्या ममाभूवन् दिनाः कल्पशतोपमाः । निशा अपि गुणाधार ! ब्राह्मचा मे दिवसा इव ।। ३२२|| निशास्वनेषु वार्तासु दिगन्तेषु दृशोः पुरः । त्वामेकरूपिणमपि वीक्षे रूपसहस्रगम् || ३२३ ॥ निशम्येत्यथ साकारं प्रत्याख्यानं समाहितः । धर्मध्यानरतः श्रेष्ठी विशेषेण चकार सः ॥ ३२४ ॥ अभयाsपि यथाबुद्धि भाषमाणा नवा गिरः | मुनीनामपि हि क्षोभकारिणी रूपसम्पदा ।। ३२५ ।। गायन्ती पञ्चमग्रामबन्धुरा नवगीतिकाम् । क्षोभयामास नैवामुं रजन्याऽपि समग्रया ।। ३२६ ॥ अमुं स्वदार सन्तोषपवित्रमित्र वीक्षितुम् ।
अजनिष्ट प्रभास्फोटस्तिमिरं संहरन् करैः ॥ ३२७ ॥ एतावत्यो मया वाचः सामभिः प्रतिपादिताः । तैः साध्यो यद्भवान्नैव सन्निपात इवोदकैः ॥ ३२८ ॥ इदानी पाटितं देहं कृत्वाऽहं नखकोटिभिः । पूत्करिष्येतरां पाप ! नेदं भाव्यर्गला व्रतम् ॥ ३२९ ॥ तथाप्यक्षुभ्यति श्रेष्ठपुङ्गवे नृपवल्लभा । अहो वज्रमयो ह्येष न विलीनो मदन्तिके ।। ३३० ।। चिन्तयित्वेति पूत्कर्तुं समारेभे महारवैः ।
सत्यं रक्ता विरक्ताश्च मारयन्ति स्त्रियः खलु ॥ ३३९ ॥
: