________________
मल्लिनाथमहाकाव्ये
उवाच धात्रिका पुत्रि ! धरित्रीधववल्लभे ! | न सुन्दरं त्वया प्रोक्तमिहाऽमुत्राऽप्रियङ्करम् || ३०५ ॥ यस्मादेष महासच्वः परनारीसहोदरः । कामयिष्यति कस्मात् त्वां गृहस्थोऽपि महाव्रती १ ॥ ३०६ ॥ कथमत्र समानेयः पारीन्द्र इव काननात् । आनीतोऽपि तव स्वार्थे न कर्तेति विचिन्तय ॥ ३०७ ॥ अथोवाचाऽभया देवी प्रतिज्ञेयं कृता मया । साकं कपिलगेहिन्या सत्या कार्या यथा तथा ॥ ३०८ ॥ नान्यस्य पुरतो मातराख्यातुमपि पार्यते । अतिदुष्कर कार्याणां भवत्येव विचक्षणा ॥ ३०९ ॥ निःश्वस्याऽथ क्षणं स्थित्वाऽवादीद्धात्री मया सुते ! | उपायो लब्ध ईदक्षः कीदृक्ष इति साऽगदत् १ || ३१० ॥ श्रेष्ठ्येष पौषधं पूर्ण विधत्ते पर्ववासरे । चत्वरादिषु मौनेन कायोत्सर्गी व तिष्ठति ॥ ३११ ॥ तत्कृते तत्र गत्वा तं कायोत्सर्गपरायणम् । मूकीभावेन तिष्ठन्तं संवेष्ट्य वसनाश्ञ्चलैः || ३१२ ॥ कन्दर्पमतिमाव्याजादू व्यामोह द्वाररक्षकान् । द्वित्रिर्वा नयनव्याजादानेष्यामि सुदर्शनम् ।। ३१३ । एवं त्वया कार्या स्वप्रतिज्ञा यथोदिता ।
ढक्का देया ढाक्किकेन नात्र जेयं परं बलम् || ३१४॥ १. एवं राज्ञी धात्रिकया गदिता मुदिताऽभवत् ।
प्रस्तावपण्डिता शश्वद्वीक्षमाणा चिरं स्थिता ।। ३१५ ।। अन्येद्युरष्टमीरात्रौ धात्र्या विज्ञातकार्यया ।
P
दृष्टः श्रेष्ठी महासत्त्वः पौषधागारमाश्रितः ।। ३१६ ॥ पुष्पादिकसपर्याया नयनाऽऽनयनच्छलात् । कन्दर्पप्रतिविम्बस्य व्याजादेष प्रवेशितः ।। ३१७ ॥ अमुं वीक्ष्याऽभयादेवी हृष्टा प्राप्तनिधानवत् ।
२२६