________________
सप्तमः सर्गः।
२२५ एवं निगदिते देव्या सहासं साऽप्युवोचत । '' अहो ! वणिप्रियाणां हि कीदृशं किल कौशलम् ॥२९२।। यतः
अस्या नपुंसकं भर्ता परं जाताः सुताः कथम् । . इत्यन्योन्यविरुद्धार्थी वणिकपनी पतिव्रता ॥ २९३ ॥ चेत्पनं संभवेद् व्योम्नि ग्रन्थौ चेद्वध्यतेऽनलः । तथापि श्रेष्ठिनोऽमुष्माद् न भवन्ति सुताः खलु ॥२९४॥ अथाऽख्यदभया देवी मुग्धे ! ज्ञातमिदं कथम् । ततः सा पूर्ववृत्तान्तमवदच्च तदग्रतः ॥ २९५ ॥ सहास्यमभया प्राह कपिले ! मुग्धचेतने !। .. अज्ञातकामशास्त्रार्थे ! वृथा पण्डितमानिनि ! ॥ २९६ ॥ असको परकीयासु रामासु भगिनीष्विव । सदा नपुंसकं श्रेष्ठी न पुनर्निजयोषिति ॥ २९७ ॥ तद् मुग्धे ! वश्चिताऽसि त्वं छलात्तेन सुबुद्धिना । अथो कपिलयाऽऽख्यायि सख्यहं तावदीदृशी ॥ २९८ ॥ कामशास्त्रेषु नैपुण्यं भवतीषु विराजते । खामिन्या यादृशी ज्ञाता तादृश्येवाऽस्म्यहं पुनः॥ २९९ ॥ ज्ञास्यामि तव दक्षत्वं कामार्थेषु विनिश्चितम् ।। यद्यमुं राजवद् देवि ! निर्दी क्रीडयिष्यति ॥३०॥ निशम्येदं बभाणैषा सख्यमुं रमये न हि । तदा तव सतीाऽहं वृथा विज्ञातकौशला ॥ ३०१ ॥ इत्थं विज्ञाय सा देवी प्रतिज्ञां तां गरीयसीम् । .. गत्वोद्याने यथाकामं क्रीडित्वा सौधमागमत् ॥ ३०२ ॥ अस्त्यस्याः पण्डिता नाम धात्री विश्वासभाजनम् । तदने विजने देवी कथयामास सादरम् ॥ ३०३ ।। सुदर्शनेन सार्धं मे यथा भवति सङ्गमः । .. तथा कुरु वितत्योच्चैः किश्चित्कैतवनाटकम् ॥ ३०४ ॥
२९