________________
मल्लिनाथमहाकाव्ये
यावत्कन्दर्पदहनाद् भस्मसाद् न भवाम्यहम् || २७८॥ विहस्योचे ततः श्रेष्ठी मुग्धे ! मुग्धासि निश्चितम् । पुंवेषेण भ्रमाम्युच्चैरहमस्मि नपुंसकः ॥ २७९ ॥ एवं कूटप्रयोगेण विमोच्य स्वं शुभाशयः । निरगाच्छ्रेष्ठिपुन्नागो दध्याविति च मानसे || २८०॥ परगेहे न गन्तव्यं स्वस्मादपि प्रयोजनात् । परगेहप्रविष्टानां व्यलीकानि भवन्ति यत् ॥ २८९ ॥ मानिनीमा लुण्टाकः स्मरसञ्जीवनौषधम् । लासकः पद्मिनीनां च वसन्तः समवातरत् || २८२॥ भृङ्गीणां विरुतैर्यत्र कोकिलानां तु कूजितैः । स्मरः सुप्तो व्यबोधष्ट राजा बन्दिखरैरिव ॥ २८३ ॥ प्रतिवृक्षं विलोक्यन्ते दोला: शाखासु लम्बिता: । पान्यमाणाण्डजग्राहे पाशा इव मनोभुवा || २८४ ॥ वसन्तश्रीसनाथानि काननानि निरीक्षितुम् । दधिवाहनभूपालश्चचाल सपरिच्छदः || २८५|| सुदर्शनश्च रूपेण सुदर्शनधरायितः । गतः क्रीडितुमुद्याने नन्दनस्येव सोदरे || २८६|| कपिलश्च द्विजः प्रान्तिकर्मज्ञैर्वेदवेदिभिः । अतिधीराक्षरोच्चारबधिरीकृतपुष्करैः ॥२८७॥ तदनु प्रस्थिता यातुं कपिला ब्राह्मणीवृता । तत्पुरवाभया देवी वरयानसमाश्रिता ॥ २८८ ॥ मनोरमाऽपि सश्रीका सर्वालङ्कारशालिनी । साकं पुत्रैश्चतुर्भिश्च लक्ष्मीपतिभुजैरिव ॥ २८९ ॥ दृष्ट्रा लीलायितं तस्या देवीनामपि दुर्लभम् । पप्रच्छ कपिला राज्ञीं कस्यैषा वरवर्णिनी ? ॥ २९० ॥ पत्नी सुदर्शनस्येयं नामधेयाद् मनोरमा । एतयोर्नन्दना एते उपाया इव रूपिणः ॥ २९९ ॥
२२४