________________
सप्तमः सर्गः ।
राजादीनां समान्योऽभूत् किं पुनः पौरसंहतौ । यस्माद् मनोरमं शीलं यस्य गीश्व मनोरमा ॥ २६५ ॥ बभूव तस्य सन्मित्रं कपिलो नाम सन्मतिः । पुरोधा भूमिपालस्य षट्कर्मप्रगुणाशयः || २६६ || कपिला नाम तत्पत्नी तारुण्यमदविह्वला | चतुःषष्टिकलापात्रं दक्षा पण्डितमानिनी || २६७॥ अन्येद्यवर्णिता प्रेम्णा कपिलेन तदग्रतः । सुदर्शन गुणग्रामोऽभिरामस्त्रिदशेष्वपि ॥२६८|| ततो न सा रतिं प्राप विद्धेवानङ्गमार्गणैः । ततः प्रभृति तत्रोत्कादिदृक्षत सुदर्शनम् || २६९॥ अन्येद्युः कपिलो राजकार्याद् ग्रामान्तरं गतः । प्रस्तावविज्ञा कपिला निजधात्रीमवोचत || २७०॥ श्रेष्ठस्तावकमित्रस्य जातं वपुरपाटवम् । देवापि कस्माद् नागम्यते त्वया ? ॥२७१ ॥ इति शिक्षां मुहुर्दत्वा प्रेषिता निजधात्रिका | सा तद्देहं समासाद्य तत्तथाऽवददुच्चकैः || २७२॥ तच्छ्रुत्वा वत्सलः श्रेष्ठी तंत्रागत्येत्यवोचत । भ्रातृजाये ! मम भ्राता भट्टः कुत्रावतिष्ठते १ ॥ २७३ ॥ तयोचे मन्दिरस्यान्तस्तव सुप्तोऽस्ति बान्धवः । भवानपि द्रुतं तत्र यातु यातु सदाशयः ॥ २७४ ॥ गृहस्यान्तः प्रविष्टो न दृष्टवान् सुहृदं निजम् । भ्रातृजाये ! कथं मां तु विप्लावयसि बालवत् ॥ २७५॥ हृन्नाभिस्तननेत्राणि कामास्त्राणीव विभ्रती । प्रकटानि चलन्नेत्रा पुरस्तादस्य संस्थिता ||२७६॥ देवाsशृणवं नाथ ! तव रूपादिवर्णनम् । तदाप्रभृति मे कामतं वपुरजायत ।। २७७ ।। संगमामृतरूपेण गात्रं निर्वापय प्रिय ! |
२२३