________________
मल्लिनाथमहाकाव्ये
विद्धोऽतितीक्ष्णकीलेन शूलाप्रोत इवाजनि ॥ २५१ ॥ स्मरन् पञ्चनमस्कारं सङ्गतेः शासनोपमम् । सुभगः प्राप पञ्चत्वं दुर्लङ्घया भवितव्यता ।। २५२ ॥ वृषभश्रेष्ठभार्याया अद्दास्यास्ततस्तदा । बभूव स सुतत्वेन सुभगः स्वप्नमूचितः || २५३ || जिनानामचनां कुर्वे दीने दानं ददामि च । पात्रं वित्ते वितरामि गुप्तेर्मुञ्चामि बन्दिनः || २५४ || दोहदमिदमेतस्याः विज्ञाय स्वानुसारतः । अमारिघोषणापूर्व तत्सर्व श्रेष्ठयपूरयत् || २५५|| अथ जाते सुते श्रेष्ठी महोत्सवमनोरमम् । सुदर्शन इति प्रीत्या सत्यार्थ नाम निर्मम || २५६ || देहेन स कलाभि वर्धमानो दिने दिने । नयनानन्दजननो रजनीश इवाजनि ॥ २५७ ॥ पुरन्ध्रीणां मनःपद्मसमुल्लासनभास्करम् । वनं काममहे तस्य स यौवनमुपेयिवान् ।। २५८ ।। ततः सागरदत्ताख्यश्रेष्ठिनः कन्यकां शुभाम् । मनोरमाभिधां हर्षाद् गुरुणा परिणायितः || २५९ ॥ अमुना गृह्णता दीक्षां न्यस्तो निजपदे सुतः । सुदर्शनः सतां श्लाघ्यः सर्वदैव सुदर्शनः || २६० || झषध्वजति रूपेण धिया च धिषणायते । चरित्रेण पवित्रेण गृहस्थोऽपि मुनीयते ।। २६१ ॥ सत्यवाक्येन यस्यास्यं विवेकेन मनोऽम्बुजम् । रूपं लावण्य पूरेण युतं यस्य व्यराजत || २६२ || सर्वज्ञशासने यस्य रागो नैव पुरन्धिषु । यस्याऽभूद् व्यसनं शास्त्रे कामास्त्रे न मनागपि ॥ २६३ ॥ असौ द्वादशधा श्राद्धधर्म सुगुरुसन्निधौ । प्रपद्य परमश्राद्धोऽजनिष्ट सुविशिष्टधीः ॥ २६४ ॥
२२२