________________
२२१
सप्तमः सर्गः ।
'विहाय पद्मिनीं भृङ्गा निषेवन्ते स्म मालतीम् । संपूर्ण सेवते सर्वो रिक्तं त्यजति दूरतः || २३८ ॥ मन्दं वर्षति पर्जन्ये स समादाय माहिषम् । अर्वाक् चारयितुं व्यूढं गङ्गायाः कूलमासदत् || २३९॥ अथ पाथोधरः पाथोधाराभिर्धरणीं तथा । अपूरयद् यथा निम्नस्थलाद्यं नाप्यलक्ष्यत ॥ २४० ॥ कृकाराकारविद्युद्भिर्दीप्रदीपायितं ततः । कज्जलश्यामलैः कामं दुर्दिनैः शर्वरीयितम् || २४१ ॥ fity नीडजा मृकभूता विद्युद्भयादिव । लपन्ति चातका विष्वक् प्रत्यद्वं याचका इव ॥ २४२ ॥ वाहा अपि नदीयन्ते सरिन्नाथन्ति निम्नगाः । अभूद् भूः पाथसां पात्रमेकं कल्पान्तवत् तदा ॥ २४३॥ कम्बलमावृततनुः सुभगो नागवेश्मनि ।
चिरमस्थाद् महिष्यश्च नद्याः कूलं परं ययुः ॥ २४४ ॥ कपिञ्जलकलकलै रात्रिं विज्ञाय भाविनीम् । तस्माद् निर्गत्य ता विष्वग्वीक्षमाणः स सैरभीः ॥ २४५॥ बुद्धया विज्ञाय गङ्गायाः परकूलं ममाधुना । महिष्यश्चरितुं प्राप्ताः सांप्रतं किं नु सांप्रतम् १ || २४६ ॥ विमृश्येति स्मरन्मत्रं नमोऽर्हद्भय इति श्रुतम् । अविक्षत् स्वर्धुनीं वारिस्फारस्फूत्कारदारुणाम्॥२४७॥ यस्यां वृक्षा महान्तोऽपि मूलोन्मूलितसंपदः । शरारिवत् तरन्त्युच्चैः स्थानभ्रंशे कुतः स्थितिः १ ॥ २४८ ॥ तीरग्रामगृहाण्युच्चैर्बभुर्यत्र तरन्ति च । मुक्तानीव विमानानि मेघदेवैः सहोदकैः ॥ २४९ ॥ पयोभिर्गृह्यमाणानां जनानामार्तनिस्वनाः । श्रूयन्ते दण्डभूच्चण्डमङ्गलातोधनादवत् || २५० ॥ तत्प्राप्तरथप्रायः सुभगस्तारकोत्तमः ।