________________
२२०
मल्लिनाथमहाकाव्येयेनाऽप्तौ वन्दितो नैव नास्माद्धर्मोऽपि संश्रुतः॥२२४॥ अथवा येन मन्त्रेण नभोऽगादेष पावनः । स मया शुश्रुवे सम्यक् तस्मादस्मि कृतार्थहृत् ।।२२५॥ ममाप्यम्बरचारित्वं भविता मुनिराजवत् । नमोऽर्हद्भय इतीयन्ति पठति स्माक्षराणि सः।।२२६॥ भोजनावसरे रात्रौ शयानो जाग्रदप्यथ । अमुमाघोषयामास प्रकृत्या भद्रकाशयः ॥ २२७ ॥ अन्यदा श्रेष्ठिनः पत्नी भणन्तममुमुच्चकैः । श्रुत्वा रे पाप! मन्त्रं नो हससीति स्म भाषते॥२२८।। नाहं मातरमुं मन्त्रं हसामि शपथा मम । किन्त्वस्य लाभमङ्गल्यं प्रसद्य निखिलं शृणु ॥२२९।। ततस्तापोधनं वृत्तं सुवृत्तस्तमचीकथत् । तत्तथेति तयाऽज्ञायि भाषितं तस्य सत्यतः ॥२३०॥ आद्योऽयं सर्वमन्त्राणां विद्यानां वसुसंपदाम् । मङ्गल्यानामशेषाणां निःश्रेयसश्रियामपि ॥२३१॥ तदहो ! शोभने स्थाने शुचिभूतेन भावतः । ध्यातव्योऽयं महामन्त्रः कल्पद्रुरिव जङ्गमः ।।२३२॥ मातर्मा कल्यसंपूर्णममुं शिक्षय सुन्दरम् । तयाऽथ पाठितः पञ्चपरमेष्ठिस्तवोऽखिलः ॥२३३॥ इतश्च ग्रीष्मवेतालसमुच्चाटनयन्त्रवत् । व्यानशे व्योम मेघानां पटलं गवलद्युति ॥२३४॥ श्रूयन्ते ककिनां केकाः कामं कर्णमुदां पदम् । पान्थानां गमनच्छेदकामाज्ञा इव सर्वगाः ॥२३५।। धारावाणैरब्दयोधा यदविध्यन् धनुर्भृतः। तदश्रुमिषतः पान्थनेत्रयोर्लक्ष्यते जलम् ॥२३६॥ मृदां गन्धाद् भवन्ति स्म मातङ्गा उन्मदिष्णवः । किं चित्रं यत्प्रमोदन्ते मलिना मलिनोदये ॥२३७।।