________________
२१९
सप्तमः सर्गः ।
तं वीक्ष्याचिन्तयदसौ धन्योऽयं पुण्यभागयम् यः पूः पितृवनेऽवात्सीदेकाकी खङ्गिशृङ्गवत् || २११ ॥ तपस्तेजोऽस्य वीक्ष्येव दिनान्तेऽप्यविनश्वरम् । ममज्ज भानुमानब्धौ किं न कुर्वीत लज्जितः १ ॥ २१२ ॥ दृष्टिप्रचारं रुन्धाना लुण्टाकी पदवेः सताम् । कुमहीपतिसेवेव रुरोधाशां तमस्ततिः || २१३ ॥ विकाल इति विज्ञाय गृहीत्वा माहिषं ततः । स्मरन् मुनिपदाम्भोजमगमद् निजमन्दिरम् || २१४॥ महिषीदोहनाद्यानि स्वकर्माणि विधाय सः । अस्वाप्सीदुचिते स्थाने पलालालीकरालिते ॥ २१५ ॥ अहो ! करालः शिशिरस्तुषारकणवर्षकः । दहन् कमलिनीखण्ड खण्डीकुर्वलताततीः ॥ २१६ ॥ निर्वातवासवेश्मस्था ऊरीकृतहसन्तिकाः । अमुं शीतमृतुं सौख्याद् गमयन्ति धनेश्वराः || २१७॥ अस्मादृशास्तु तैलेन दिग्धाङ्गाः कन्ययाऽन्विताः । पलालशयनस्याऽन्तर्गमयन्ति महानिशाः || २१८ ॥ स यतिः प्रावृतो नैव यथाजात इव स्थितः । सहिष्यते कथं शीतं दुःसहं सहसा कृतम् ॥ २१९ ॥ तदाऽहं निजया पटधा प्रावरिष्यं मुनिं यदि । इदं शीतं महासच्चोऽलङ्घयिष्यदसंशयम् ।। २२० ॥ विशन्निति कृत्यानि विनिर्माय स सादरम् | मुनिपादरजःपूतं तं प्रदेशमगादथ ।। २२१ ।। अत्रान्तरे दिशां चक्रं द्योतयन् संहरंस्तमः । पूर्व भूधर माणिक्यमुदियाय नभोमणिः || २२२ ॥ नमो इति प्रोच्य सोऽपि साधुः खगेन्द्रवत् । अमुष्य वीक्षमाणस्य विहायस्तलमासदत् ||२२३॥ अहो ! अभाग्यपात्राणामद्य मुख्योऽस्मि निश्चितम् ।