________________
२१८
मल्लिनाथमहाकाव्येतद्भस्मसात्करिष्यामि त्वत्पादरजसाऽञ्जसा ॥१९॥ अथ व्याख्यानयत् विश्वनाथस्तुयेमणुव्रतम् । अब्रह्मविरतिर्नाम माहात्म्यद्रुघनाघनः ॥१९८॥ केचिद् नवेऽपि तारुण्ये वृद्धा इव विवेकिनः । अनाचारे न वर्तन्ते शीलमालिन्यशङ्कया ॥१९९॥ विचापहारदुःखानि नानाकारकदर्थनाः । अङ्गप्रत्यङ्गविच्छेदाँल्लभन्ते पारदारिकाः ॥२०॥ विश्वासवसतिः शीलं शीलमुन्नतिकारणम् । सर्वसौख्यनिधिः शीलं शीलं कीर्तिनदीगिरिः॥२०१॥ अहार्य मण्डनं शीलं शीलं सर्वाङ्गभूषणम् । शीलं सर्वज्ञधर्मद्रोर्मूलं शीलं श्रियः पदम् ।।२०२॥ शीलवतगुणाऽऽकृष्टा देवा अपि हि पत्तिवत् । आयान्ति स्मृतिमात्रेण प्रयान्ति च विसर्जनात् ॥२०३॥ स्वकीयदारसंतोषं ये भजन्ति दृढव्रताः। तेषां सुदर्शनस्येव शूला सिंहासनं भवेत् ॥२०४॥ तथाहि भरते वर्षे विषयेऽप्यङ्गनामनि । चम्पानाम पुरी तत्र भूपालो दधिवाहनः ॥२०५॥ देवी तस्याऽभया नाम धाम लावण्यसंपदाम् । धात्री पात्री च बुद्धीनाममुष्याः पण्डिताह्वया ॥२०६॥ श्रेष्ठी वृषभदासाख्यस्तत्रासीद् धाम संपदाम् । अर्हदासीति सत्यार्था तस्य पत्नी पतिव्रता ॥२०७॥ अमुष्यर्षभदासस्य सदयः प्रियभाषकः । महिष्या रक्षकः शान्तः सुभगः सुभगाशयः ॥२०८॥ अन्येधुश्चारयित्वा स महिषीर्वलितस्तदा । अपश्यत् तपसा क्षामं मुनि शममिवाङ्गिनम् ॥२०९॥ यत्रास्तमितवासत्वात्कायोत्सर्गपरायणम् । सोऽपश्यञ्च महासत्त्वं पुरीपरिसरेऽपि हि ॥२१॥