________________
सप्तमः सर्गः। .
२१७ स बद्धो बर्हिबन्धेन ततो नीतो नृपान्तिके। पपात भद्रनामाङ्कमुद्रा तद्वस्त्रमध्यतः ॥ १८४ ॥ नृपाऽऽदेशात् तलाध्यक्षः शूलायामेनमक्षिपत् । इतश्चाऽजानती तत्राऽऽगमत्तस्याऽम्बिका पुरः॥१८५।। शूलामोतं सुतं दृष्ट्वा कालरक्षाकटाक्षितम् । चक्रेपलायां सा भीता पान्थो दुःशकुनादिव ॥१८६॥ हंहो! तलाध्यक्षनराः ! इमां रण्डां मदन्तिके । समानयत, वेगेन कथयिष्ये धनं हि वः ॥१८७।। कोकूयमाना खरवत्साऽऽनीताऽजा कैरिव । रे रण्डे ! तव दुःशिक्षाफलं मम विजृम्भितम् ॥१८८॥ भक्षके यद्यरक्षिष्यस्तिलस्तैन्यपरं हि माम् । तदा नैवंविधोऽनर्थो निरपत्स्यत मेऽधुना ॥१८९॥ दुस्त्यजो बाल्यसंस्कारो नीलीराग इवाम्बरे । अहं त्वयोपेक्षितश्च मारितश्च त्वयैव हि ॥१९०॥ इत्युक्त्वा बाहुदण्डाभ्यां विधृत्याम्बां दुराशयः । घागं चिच्छेद दन्तायैः कर्णावपि च मूलतः॥१९१।। इति कृत्वा स रौद्रात्मा रौद्रध्यानकदर्थितः। जगाम सङ्गमो धूमप्रभाख्यां नरकावनीम् ॥१९२॥ अदत्तग्रहणे राजन् ! फलमीदृग् विलोक्यते । तस्मात्परधनत्यागः कर्तव्यो हितमिच्छुना ॥१९३॥ उवाचाऽथ धरानाथः श्रुत्वाऽमुष्य निदर्शनम् । अस्माकं कम्पते चित्तं वाताऽऽन्दोलितकेतुवत् ॥१९४॥ केषाश्चिदाधिपत्येन महेशानां निरागसाम् । सर्वस्वं जगृहेऽस्माभिः खानयित्वा गृहाण्यपि ॥१९५॥ केचिद् बाला अपि च्छिन्नाः केचिदुन्मीलितास्तताः । वृक्षा इव परोलक्षा मया वाकिना यथा ॥१९६॥ सर्वखं हरता तेषां यत्कर्मोपार्जितं मया । ___ २८ .