________________
२१६ मल्लिनाथमहाकाव्ये
तद्वचो मन्त्रवच्छ्रुत्वा ववले नगरं प्रति । रात्रौ खात्रमदासीच्च तत्र स्मेराम्बुजाकृतिः॥१७१॥ गृहीतभद्रवित्तोऽसौ तत्राऽस्थाद् निर्भयाशयः । इभ्योऽप्यगाच्च वेगेन तदैवादौ निरैक्षत ॥ १७२ ॥ अद्यैव पातितं खात्रं निशायां नाथ ! केनचित् । इत्यारक्षकवाक्यानि श्रुत्वोचे वणिजां पतिः ॥ १७३ ।। ह्यस्तनेऽह्नि मयाऽश्रावि यत् खात्रं ते महौकसि । पातितं तदद्य सत्यं जातं भाग्येतरोदयात् ॥ १७४ ॥ तद्धर्तक्रीडितं किञ्चिञ्चिन्त्यते धीविलोकनात् । यद् देवैरपि दुर्जेयं तत्साध्यं बुद्धिवैभवात् ।। १७५ ॥ अक्षतैरिव रत्नौधैः भृत्वा स्थालं महीपतेः । प्राभृतीकृत्य तत्खात्रवृत्तमाख्यत वित्तवान् ।। १७६ ॥ तदाकर्ण्य नृपः कोपारुणदारुणलोचनः । समाकार्य तलारक्षं साक्षेपमिदमब्रवीत् ॥ १७७ ॥ रे रे तलाधिपाऽशेषं त्वयि सत्यपि तस्करैः। अनाथमिव मे नूनं पत्तनं परिमोष्यते ॥ १७८ ।। सोऽवदद् तद्ग्रहे नाथ! उपाया बहवः कृताः । परं न कापि संप्राप्तः समुद्रक्षिप्तचूर्णवत् ॥ १७९ ।। सप्ताहाद् दैवपादानां पुरश्चौरमुपानये । अन्यथा तेन दण्डेन दण्डो मम विधीयताम् ॥१८॥ ततः प्रभृति सातत्याद् भ्राम्यन् नगररक्षकः। स्थूलाङ्ग पुरुषं कश्चिद् भ्रमन्तं दृष्टवान् पुरे ॥१८॥ तं दूरस्थस्तलाध्यक्षो वीक्षमाणः पदे पदे । मध्याह्ने द्विजवेषेण यान्तमिभ्यमहौकसि ॥ १८२ ॥ सन्ध्यायां कृतनेपथ्यं सामन्ततनयायितम् । निरीक्ष्य ज्ञातवानेष चौरबुद्धिर्हि सिद्धिकृत् ।।१८३॥
(युग्मम् )