________________
सप्तमः सर्गः ।
सौधान्यपि क्षणालीपुञ्जानीव व्यलङ्कयत् ॥ १५७॥ कदाचिद् मौनभागेष कदाचिद् भिक्षुकक्रियः । कदाचिद् धनदः श्रीभिः कदाचिद् नाव्यकारकः ।। १५८।। सर्वरूपधरः सोऽभूद् विद्यासिद्ध इवावनौ । कृतानोऽम्बया रागात सूर सूर इति स्फुटम् ।। १५९ ।। अन्येद्युर्मातुलस्तस्य यशोनागोऽभिधानतः । एकान्ते शिक्षयामास तं विनेयं गुरुर्यथा ॥ १६० ॥ वत्स ! स्वच्छाशय ! त्यक्तुं चौर्य साम्प्रतमेव ते । परद्रव्यहरा नूनं छिद्यन्ते ऋजुवृक्षवत् ।। १६१ ॥ मार्यन्ते विविधैर्मारैः क्रीडायां शारयो यथा । ताड्यन्ते च कशाघातैस्तुरङ्गा इव सादिभिः ॥ १६२॥ एतावन्ति दिनान्युच्चैर्यत्कृतं सुन्दरेदृशम् ।
तद् बालत्वाद् मया क्षान्तं बाला अज्ञा इति श्रुतिः। १६३ । एतद्वचांस्यनाकर्ण्य प्रासरद निजकर्मणि ।
२१५
किं विधत्ते यतोऽन्धानां प्रदीप्ता दीपकोट्यपि ॥ १६४ ॥ तत्रवास्तव्यभद्राख्यसार्थवाहमहौकसि ।
खात्रं पातयितुं सज्जो न प्रापौपायनं च सः || १६५॥ ऊर्ध्वस्थाः सुभटा विष्वग्भित्तयः फलकाङ्किताः । खात्रदाने कुतो हेतुर्निर्हेतुः सोऽप्यजायत ।। १६६ ॥ अन्येद्युर्भद्रवित्तेशो विषयं चन्दनं गतः । पदातिरिव तत्पृष्ठे संगमोऽपि हि संगतः ॥ १६७ ॥ तत्र गत्वेदृशीं चक्रे वार्तां कापि महामतिः । भद्रस्य मुषितं गेहं खात्रदानेन केनचित् ॥ १६८ ॥ किंवदन्ती च सा पौरप्रणाल्या भद्रसन्निधौ । अगादाख्यत सोप्युच्चैर्न ह्येतद् घटते कचित् ॥ १६९ ॥ परं कोशस्य कोणोsस्ति जर्जरो दक्षिणेतरः । तत्र संभाव्यते खात्रसंभवोऽन्यत्र न कचित् ॥ १७० ॥