________________
२१४
मल्लिनाथमहाकाव्ये
पश्य सोमोऽपि पद्मिन्याः श्रियं हरति रात्रिषु ॥ १४४॥ परद्रव्यापहर्तारः कर्तारः कर्मवैभवम् । हन्तारः प्राप्तकीर्तीनां यातारो नरकावनीम् ॥ १४५ ॥ अदत्तादाननिरतास्ते लभन्ते शुभेतरद् । शृणु भव्य ! प्रबोधाय संगमकनिदर्शनम् ॥ १४६ ॥ तथाद्यैरावते क्षेत्रे नगरे सोमपत्तने । अभूद् भूमीश्वरश्चन्द्रकेतुः केतुरिव द्विषाम् ॥ १४७ ॥ क्षत्रियायाः सुतस्तत्र वास्तव्यः संगमाभिधः । पञ्चवत्सरदेशीयः समभूद् घस्मरोऽनिशम् ।। १४८ ॥ अन्येद्युर्बभणे तेन देहि मातस्तिलान् मम । साऽप्याख्यत् खलतो गत्वा गृहाण निजयेच्छया ।। १४९ ॥ न मे तिलपतिस्तातो न बन्धुर्न च मातुलः । न पितृव्यः पतिर्वाऽपि कथं दास्यति सोऽवदत् १ ॥ १५०॥ जनयित्र्या ततः कण्ठस्नानं सैष विधापितः । सोऽप्याविग्रहस्तत्र गतवान् प्रमितैः पदैः ।। १५१ ॥ श्येनपातं पपातोच्चैस्तत्र तेष्वथ संगतः । लुठति स्म तरां श्रान्ततुरङ्गम इवाधिकम् ।। १५२ ॥ आः पाप ! बालकक्रीडां कथमत्र विधास्यसि ? | जनैस्ताड्यमान इति स मन्दं प्रासरत् ततः ।। १५३ ।। धुत्वा घुत्वा शरीरं सोऽपातयद् भुवि तांस्तिलान् । जनन्याऽथ प्रमार्जिन्या ते च पुञ्जीकृताः क्षितौ ॥ १५४॥ जाता सुखादिका तस्य लब्धोपायस्तदर्जने । एवं दिवानिशं कुर्वन् जातास्वादः प्रगल्भते ।। १५५ ॥ कालक इति पौरव मुच्यमानो दिवानिशम् । क्रमशस्तस्करो जातो दुर्ग्राह्यो भटकोटिभिः ।। १५६ ॥ गतवत्परिखां जानन सखीमपि महोदधेः ।
१ मन्वन् इत्यपि ।