________________
२१३
सप्तमः सर्गः ।
वसुबन्धुं समाहूयाऽपृच्छत् क्षितिपतिश्च तत् । असौ सत्यमभाषिष्ट तं वृत्तान्तं सविस्तरम् ।। १३१ ।। अस्य सत्यवचः श्रुत्वाऽभ्यधादथ महीश्वरः । अहो ! सूनृतगीः श्रेष्ठी अहो ! व्रतविवेचनम् ॥ १३२ ॥ कौस्तुभेन यथा वक्षो भूप्यते केशिशासितुः । तथा सत्येन मनुजो वक्षःस्थेनाकलङ्किना ।। १३३ ॥ जरामरणकल्लोलः प्रत्यूहव्यूहवारिधिः । विष्वक्प्रवहणेनेव सत्यवाक्येन तीर्यते ॥ १३४ ॥ धर्मवानपि विज्ञोऽपि नृतेतर भाषणात् । न नन्दति निरानन्दो मन्त्रपाठी यथाऽशुचौ ॥ १३५ ॥ असारे त्रिभवेऽमुष्मिन् सारो सुनुतगीरहो ! | क्षाराम्बुधाविव क्षीरकूपिका तर्पिकाऽधिकम् ॥ १३६॥ प्रशस्येत्यवदद् धात्रीपुङ्गवः श्रेष्ठिपुङ्गवम् । पौत्रस्यार्थे कथं नोक्तं भवता सुनुतेतरत् १ ॥ १३७॥ ? स्वामिन् ! श्वेताम्बराचार्यमघोषपदान्तिके । गृह्णता भावतः सर्वव्रतानि बहुभेदतः ॥ १३८ ॥ विशेषतो व्रतेऽप्यस्मिन् निश्चयो विदधे मया । असावेत यौष्माकादेशतः परिपालितः ।। १३९ ॥ अथ सत्कृत्य भूपालस्तद्भाले स्वर्णपट्टकम् । सत्यस्य सूचकं बद्ध्वा गृहे स्वयममोचयत् ॥ १४० ॥ ततः प्रभृति स श्राद्धव्रतानि परिपालयन् । कल्पं लान्तकमासाद्य भरते मोक्षमेष्यति ॥ १४१ ॥ नृनाथोऽथ जगन्नाथं नत्वा कुम्भोऽभणत्तराम् । वसुबन्धुः कृतार्थोऽयं यः सत्यव्रततत्परः ।। १४२ ॥ अथाऽप्रकाशयद् नाथस्तातयीकमणुव्रतम् । अदत्तादानविरतिलक्षणं शुभलक्षणम् ॥ १४३ ॥ परद्रव्यमतिः प्रायः प्राणी स्यात् कर्मगौरवात् । .