________________
२१२ मल्लिनाथमहाकाव्ये
अन्यदा पोतमारुह्य सोमदेवोऽम्बुधौ गतः। परकूला निवृत्तश्च मन्दिरद्वारमाययौ ॥११८॥ पौत्रोत्को गतवांस्तत्र वसुबन्धुर्महाधृतिः । पोतस्थमालिलिङ्गाऽऽशु सुतं मूर्ध्नि चुचुम्ब च ॥११९॥ अप्रच्छि स्वस्थचित्तेन मार्गव्यतिकरोऽखिलः । चिराय मिलितानांस्याद् वार्ताभिर्यद् महावृतिः॥१२०॥ पोतेऽत्रैव वणिपुत्रं धर्मदेवाभिधाश्रुतम् । पप्रच्छ सोमदेवोऽथ किमिदं दृश्यते पुरः? ॥ १२१ ॥ देवाऽयं पुरतो मत्स्यः साक्षाददिरिवापरः। कुतश्चिद् निश्चलः सम्यग् नायं शैलः शुभाशय ! ॥१२२॥ सोमदेव उवाचाऽथ झषो नायं महामते ! । किन्त्वयं पर्वतः कोऽपि यादस्तुल्यो महोदधौ ॥१२३॥ चेदयं भद्र ! मत्स्यः स्याद् मामकीनं धनं तव । चेदयं पर्वतो भावी तावकीनः पणश्च कः ? ॥ १२४ ॥ अथेत्थं धर्मदेवेन जगदे प्रमिताक्षरम् । मामकीनं शिरस्तेऽस्तु तद्वशे लभ्यभागवत् ॥ १२५ ॥ उभाभ्यां वसुबन्धुश्च साक्षीचक्रे स्वजल्पयोः । ततो धर्मोक्षिपत् तत्र प्रज्वलत्तृणपूलकम् ।। १२६ ॥ तत्पृष्ठं पतता तेन संजातं तापितं तिमः। ननाश काकनाशं च वराको लगुडादिव ॥ १२७ ॥ धर्मदेवो धनं तस्य याचते पितृदत्तवत् । सोऽपि मौन्यभवत् काममन्यथाक्षिप्तचित्तवत् ॥१२८॥ ततस्तेन महीभर्तुर्गदितं पुरतोऽखिलम् । परिभूतेषु भूपालः पितेव परिपालकः ॥ १२९ ॥ हंहो ! युष्मद्विवादेऽभूत् कः साक्षीत्यगदद् नृपः ।। अनयोरगदद् धर्मः साक्ष्यस्त्यस्य पितामहः ॥१३०॥
१ भागतः, इत्यपि।