________________
सप्तमः सर्गः।
२०९
अधृति मा कृथाः श्रेष्ठिन् ! विचारय वचो मम । भविष्यति कृतोद्वाहः शान्तात्मा तव नन्दनः ॥ ७८ ।। काचिद् वेत्रधराः! श्रेष्ठिपुत्रयोग्यास्ति दिक्करी । परिणेतुं यद् भवन्तो नागरान्वयवदिनः ॥ ७९ ॥ अथाऽऽख्यद् वेत्रभृचैकः स्वामिन्नत्र पुरे वरे । आसीत् श्रेष्ठी गुणी शान्तः पनः पद्मविलोचनः॥८॥ पद्मादेवीति तस्याऽऽसीत् प्रेयसी कटुभाषिणी । मर्मविद्वचसा खानिः जङ्गमः कलिपादपः ॥ ८१ ॥ तयोः शुभङ्करः पुत्रः पवित्राचारभासुरः । अल्पदल्पवाही च गुणमाणिक्यरोहणः ॥ ८२ ॥ तस्याऽभूद् धारिणी नाम धरिणीव स्थिरा गिरा। नीरङ्गीसुभगा साध्वी श्वश्रूपादोपजीविनी ॥ ८३ ।। पद्मातिकर्कशैक्यैिः सर्वलोहमयैरिव ।। वधं निरागसमपि ताडयामास दुर्मुखी ॥ ८४ ॥ तन्न स्थापयति स्थाले यत्प्रयाति गलात्परम् । कृतमासोपवासेव शुभङ्करप्रियाऽजनि ॥ ८५ ॥ आदेशैः कर्मभिः प्राज्यै रोगैरिव कलेवरम् । तस्या दग्धमभूत् किं वा जातरोगेव साऽभवत् ॥८६॥ श्वशुरौकः स्वयं त्यक्त्वा स पित्राऽऽवासमासदत् । अतिपूर्ण स्फुटत्येव सत्यं लोकवचो यतः ॥ ८७ ॥ वत्से! श्वशुरवेश्माऽऽशु गम्यतां स्थीयतां तु न । तातवेश्मनि पुत्रीणां निवासे वचनीयता ॥८॥ यान्यक्षराणि रुष्टाऽपि भाषते श्वशुरप्रिया । तानि मन्त्राक्षराणीव शुभायेति विचिन्त्यताम् ॥८९॥ इत्यादितातशिक्षां च श्रुत्वा धारिण्युवाच तम् । प्रेतधामेव यत्त्यक्तं श्वाशुरं वेश्म सर्वथा ॥ ९ ॥ वल्लरी दवदग्धाऽपि प्ररोहति मुहुर्मुहुः ।