________________
२०८
मल्लिनाथमहाकाव्येनदीपूरादिव ग्रामाः प्लाव्यन्ते तटवासिनः ॥६५॥ सत्यवाक्यप्रभावेण भूपालैरपि पूज्यते । वसुबन्धुर्यथा श्रेष्ठी धर्मदेवकलौ किल ॥६६॥ तथाहि धरणीवासाभिधानं पुरमुत्तमम् । तत्रारविन्दभूपालो विशालो निलयं श्रियः ॥६७॥ वसुबन्ध्याह्वयः श्रेष्ठी तत्र श्रेष्ठो गुणोत्करः । यद्वित्तैर्व्यवहर्तु वा कौवेरी धनदोऽगमत् ॥६८॥ वसुभद्रः सुतोऽमुष्य दुर्दान्तसुहृदां गणैः । समेतो नगरी भ्राम्यन् मदमत्त इव द्विपः ॥६९॥ न पितुर्मन्यते शिक्षा नाभ्यस्यति कलाः कचित् । पर्वण्यपि गुरोः पादौ न ननाम दुराशयः ॥७॥ अन्येयुः श्रेष्ठिमूर्वीक्ष्योपक्ष्मापतिनिकेतनम् । गृहश्रोतःस्फुरद्भरिकृमिप्रोन्मत्तकर्दमम् ॥७१।। देवदृष्यमिवाहायोत्तार्य मौलेर्वरां पटीम् । श्रोतोऽन्तः कुण्डलीकृत्य क्षिप्तवान् लेष्टुखण्डवत् ॥७२॥
(युग्मम् ) तस्योपरि क्रमौ न्यस्य विहाय चोत्तरच्छदम् । अग्रतः प्रससाराऽसौ मदोन्मत्तशिरोमणिः ।। ७३ ॥ कोऽयमेष इति नरं कश्चित् पप्रच्छ भूपतिः। . अवादीदेष निःशेषतदीयकुलवेदकः ॥ ७४ ॥ . . देवाऽयं वसुबन्धोश्च नन्दनो वसुभद्रकः । व्यसनोपहतस्त्यागी दुःशिक्षितमदाऽन्धलः ॥ ७५ ॥ ततः कौतुकितो राजा वसुबन्धुमजूहवत् । श्रेष्ठिस्तवात्मजः कस्मात्कुलशिक्षाविवर्जितः ॥७६ ॥ स्वामिन् ! शिक्षोपदेशांस्तन्नाऽमंस्ताऽयं कथञ्चन । : कुलक्षये भवन्त्युच्चैः सुता ईदृविचेष्टिताः ॥ ७७ ॥: