________________
1
तमः सर्गः ।
सर्वथा जीवरक्षार्थं यतन्ते कुलजा मम । इत्यतो नाधिकं वेद्मि बाल्यतः पृथिवीपते ! ॥५२॥ निशम्येति नृपोऽवोचद् धन्यं श्राद्धकुलं क्षितौ । यस्मिन् बाला अपि दयाकृष्टाः शिष्टताजुषः ॥ ५३ ॥ बालका अपि यत्रेहरजीवरक्षापरायणाः । ये पुनीत सिद्धान्तास्ते कीदृक्षाः क्षमातले ? ॥ ५४॥ प्रशस्येति श्राद्धकुलं सुदत्तं दत्तशासनम् । अङ्गरक्षक नेतृत्वे चकार क्षोणिनायकः ।। ५५ ।। नृपाङ्गरक्षां कुर्वाणस्तीर्थनाथार्चनोद्यतः । कुलीनललनोद्वाही दानशौण्डः प्रशान्तधीः ।। ५६ ।। श्रीचन्द्रप्रभतीर्थेशसमीपे श्रावकत्रतम् ।
२०७
आदाय विधिना शुद्धं सम्यक्त्वविधिबन्धुरम् ||५७|| पर्यन्तेऽनशनं कृत्वा परमेष्ठिस्तवं स्मरन् । मृत्वा माहेन्द्रकल्पेऽभूत् तस्माद् निर्वाणमेष्यति ॥ ५८ ॥ सुदत्तस्य यथा जातमिहाऽमुत्र श्रियां पदम् । तथान्येषामपि भवेत्प्राणिनां वधरक्षणात् ॥ ५९ ॥ अथ नत्वा जिनं कुम्भो जगाद रचिताञ्जलिः । धन्यः सुदत्तो भगवान् यो बाल्येऽपि दयापरः ॥ ६० ॥ राजन् ! प्राणातिपातस्य विरतेर्भूषणं सदा । मृषावादं परिहरेत् द्वैतीयीकमणुव्रतम् ॥ ६१ ॥ सत्यं कीर्तिलतामूलं सत्यं पुण्यनदीगिरिः । सत्यं विश्वाससौधं च सत्यं लक्ष्मीनिकेतनम् || ६२|| यथा पुण्ड्रेण रामाया वक्ताम्भोजं विभूष्यते । यथा गङ्गाप्रवाहेण पूयते भुवनत्रयम् ||६३|| यथा च शोभते काव्यं सार्थयां पदशय्यया । तथा सत्येन मनुज इहामुत्र विराजते ||६४ || ( युग्मम् ) प्रतिष्ठाः लोकविश्वासप्रत्यया अनृतोदितेः ।