________________
मल्लिनाथमहाकाव्येवाचा दग्धः पुनस्तात ! प्रादुर्भवति न कचित् ॥११॥ गृहवासो ममाऽभाग्याद् वनवास इवाजनि । क्लिष्टकर्मोदितेः श्वश्रूर्जज्ञे विषमुखी मम ॥ ९२ ॥ तात ! कूपे पतिष्यामि प्रवेक्ष्यामि हुताशने । न पुनः श्वाशुरं वेश्म गमिष्यामि कदाचन ॥१३॥ इत्थमाकर्ण्य तद्वाक्यं चक्रे मौनं मुनिर्यथा । अति हि व्याहृतं हन्त ! प्राणात्याय प्रजायते ॥९४॥ अथ देवरि संप्राप्ते तामाहातुं तदौकसि । ऊचेऽथ धरिणी तात ! न गन्तास्मि प्रियौकसि।।९५॥ शिरःकण्डूयनं कृत्वा ज्ञात्वा मातुर्विजृम्भितम् । यथागतस्तथाऽऽयातो मौन्यभूच्च गृहे गतः ॥ ९६ ॥ इतश्चकस्यचिद्गतचित्तस्य वित्तं दत्त्वा यथारुचि । पद्मदेवी निजं पुत्रं पर्यणाययदञ्जसा ॥ ९७ ॥ पूर्ववत् ताडयामास तां वधूं कर्कशैः पदैः ।। खभावो यस्य यो लग्नः किं शक्यः कर्तुमन्यथा ॥९८॥ ततो वधूजनैर्देव ! वधूमारिरिति स्फुटम् । अदीयताहयस्तस्याः सान्वयं स्वरवत् तदा ॥ ९९ ॥ देव ! तस्याः सुता तद्वत्कलिवल्लीव जङ्गमा । पुत्र्यो हि मातृवद् दृष्टाः पुत्राः पितृसमा यथा॥१०॥ अङ्गारशकटीत्युच्चैस्तस्या नाम व्यजृम्भत । न कश्चिदुद्वहत्येनां विषकन्यामिवाऽवनौ ॥ १०१॥ चेत्तया सह संयोगो वसुभद्रे भविष्यति । एकमेव गृहं स्वामिस्तद् विनश्यति नापरम् ॥ १०२ ॥ अथ स्वयं महीपालो वसुभद्रं स्वपुत्रवत् । सार्धमङ्गारशकव्या पर्यणाययदञ्जसा ॥ १०३॥ भिन्नश्च विहितः श्रेष्ठिगेहादक्षरपत्रकैः।