________________
सप्तमः सर्गः ।
लब्धसंज्ञः समुत्तस्थौ सुदत्तो दत्तलोचनः ॥ २५ ॥ राजकीयभटेनाsपि पृष्टं मृच्छानिवन्धनम् । दुःखं जगाद निःशेषं जननी मरणावधि ॥ २६ ॥ इतश्च सूद आगत्य मूल्यमेतस्य पृष्टवान् । सोsवोचदेनं मूल्येन न विक्रीणामि सन्यते ! ॥ २७ ॥ एतस्य मूल्यवित्तेन न कर्तास्मि सुरालयम् । न न्यूनं पूरणं भावि दारिद्र्योपहतस्य मे || २८ ॥ दुःखितस्यास्य नो कर्तुं भृतिर्युक्ता स्वपुत्रवत् । परं तुभ्यं प्रयच्छामि स्नेहेनैनं धनं विना ॥ २९ ॥ मुधा संप्राप्य हृष्टः सन् सुदस्तस्माद् न्यवर्तत 1 अगादपि निजावासं भोजयामास तं स्वयम् ॥ ३० ॥ गृहीतो राजसौधे सूदेनौदनपक्तये । कारितश्च समादेशादिन्धनाऽऽनयनादिकम् ॥ ३१ ॥ प्रस्तावे जगदे तेन हो बालक ! लावकान् | वंशकम्बादिनिष्पन्न खराद् निरवासय ॥ ३२ ॥ विधानोदयां चित्ते पञ्जराद् लावकानसौ । अशेषानमुञ्चत् तेऽपि नभसा रभसा ययुः ।। ३३ ॥ क्षणं स्थित्वा समागत्य पञ्जराद् लावका मया । तात ! सर्वे विनिर्मुक्ता यौष्माकीणनिदेशतः || ३४ ॥ इत्युक्तवन्तं तं सूदः कम्बया समताडयत् । .मुग्धोऽयमिति तं बालं विततर्क निजे हृदि ॥ ३५ ॥ द्वितीयेऽयमुनाऽऽदिष्टो लावकान् बालकाऽधुना । वक्रां ग्रीवां विधायाssशु पञ्जरेभ्यः समानय || ३६ || अथाऽसौ तत्र तांस्तेभ्य आकृष्य पूर्ववत्क्षणात् । मङ्क्ष्वमुञ्चदशेषांश्च वक्रग्रीवोऽभवत् स्वयम् || ३७ ॥ वक्रग्रीवममुं दृष्ट्वाऽवादीत् सूदः कुतो भवान् । वक्रग्रीवः समायातः सोऽवोचदथ मन्दगीः १ ॥ ३८ ॥
२०५