________________
मल्लिनाथमहाकाव्येअध्यासामासुरतेऽपि दुर्ग दुर्ग्रहमाग्रहात् ॥ १२ ॥ विक्रमस्य वलैस्तेषां प्रामग्रामा उपद्रुताः। अत्युग्रकृतपापानामिह लोकेऽपि यत्फलम् ॥ १३ ॥ सुदत्तग्रामवास्तव्यः सुदत्तो वणिगात्मभूः । सप्तवर्षप्रमाणाङ्गो विधृतः केनचिद् हठात् ॥ १४ ॥ अथाऽऽनीतः पुरे राजगृहे राजभटेन सः। धृतश्च पूलकं दत्त्वा मस्तकेऽसौ चतुष्पथे ॥ १५ ॥ अन्येन केनचित् तत्र सुदत्तस्य जनन्यपि । तदा विक्रेतुमारब्धा पुरस्तात्पुत्रनेत्रयोः॥१६॥ स तामुद्दीक्ष्य साप्येनं रुरोद करुणस्वरैः।। महौषधं हि दुःखाते रोदनादपरं नहि ॥ १७ ॥ भङ्गो निजकदेशस्य गोधनस्य परिक्षयः । दत्तलभ्यपरिभ्रंशः स्वजनानां परिच्युतिः ॥ १८ ॥ मत्पुत्रो गतभाम्यांशों विधृतो रोरबालवत् । एवं विचिन्तयामास सुदत्तजननी तदा ॥ १९ ॥ हा ! निर्वीरेव मन्माता धृताऽनेन चतुष्पथे । अचिन्त्या हि गतिः पूर्वकर्मणां हतशर्मणाम् ॥२०॥ स्फुटत्यूर्वी यदि ततो विशामि क्षितिवेश्मवत् । । अहं लभे विषं सामि ततो मोदकलीलया ॥२१॥ तयोश्चिन्तयतोरेवं सुदत्तस्य जनन्यथ । . तत्क्षणं हृदयस्फोटाद् व्यपद्यत चतुष्पथे ॥ २२ ॥ ततो विशेषतस्तारतरं तरललोचनः । सुदत्तो रोदिति स्त्रोचै रोदयन्नपरानपि ॥ २३ ॥ मूर्छया न्यपतत् पृथ्व्यां मूलकृत इवांहिपः। , एकं हि जननीमृत्युः परदेशागमः परम् ॥ २४ ॥ दयया नागरैः सिक्तो घनैः शुष्यद्वनं यथा। १ वाऽधि, इत्यपि । २ क्षतः, इति च । ....