________________
मल्लिनाथमहाकाव्येसाधुप्रदत्तदुग्धात् ते राज्यमाज्यमिवाभवत् ॥ ५५२ ॥ यत्पुनादशघटीं खेदितो मुनिपुङ्गवः ।। तदेष विरहो जज्ञे युवयोदशाब्दिकः ॥ ५५३ ॥ 'श्रुत्वेति तौ न्यस्य राज्यं तनये पुष्कलाभिधे । गुरोस्तस्माद् व्रतं लात्वा पालयांचंक्रतुश्विरम् ॥५५४॥ भोगेच्छुरन्यदा भैम्यां नलोऽत्यज्यत मूरिणा। सुरलोकात् समागत्य निषधेन प्रबोधितः ।। ५५५ ॥ 'विदधेऽनशनं कर्तुमसमर्थो व्रतं नलः। नलानुरागतश्चके दवदन्त्यपि तत् तथा ॥ ५५६ ॥ नलो मृत्वा कुबेरोऽभूद् भीमजा दयिताऽस्य च । तत्रापि हि तयोः स्नेहो महानजनि पूर्ववत् ॥ ५५७ ॥ च्युत्वाऽथ पेढालपुरे हरिश्चन्द्रनृपौकसि । ।.. भैमी लक्ष्मीवतीकुक्षौ सुता कनकवत्यभूत् ॥५५८॥ स्वयंवरे तां च वरेण्यमूर्तिरथोपयेमे दशमो दशाहः । साधार्मिकी धर्मकथासु लीना कलङ्कहीना समयं निनाय॥ पौत्रे सागरचन्द्रनामनि बलस्योच्चैर्गते स्वर्गितां गेहस्थापि भवस्थितिं सविनया सा चिन्तयन्ती मुहुः । ज्ञानं केवलंमाप्य नेमिनिकटं संप्राप्य मासं दिनान्याधायानशनं च नितिमथ प्रक्षीणकर्माऽगमत् ॥५६०॥ सम्यक्त्वं परिपात रक्षति जगद् नैवाऽनृतं भाषते नादत्तेऽन्यधनं ह्यदत्तमिह यो ब्रह्मव्रतं सेवते । यो द्युम्नं प्रमितं दधाति विनयं धत्ते च साधुव्रजे सिद्ध्यत्येष जनो यथैष दवदन्त्येभिर्गुणैर्भूषिता ॥५६१॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिस्वामिचरिते
महाकाव्ये विनयाङ्के सम्यक्त्वफले दवदन्ती':- महासतीचरितव्यावर्णनो नाम षष्ठः सर्गः ।