________________
२००
मल्लिनाथमहाकाव्येपुनरि समायान्तं नलमालिङ्गय भीमराट् । . निजे सिंहासनेऽध्यास्य स्मेरास्यकमलोऽवदत् ।।५२६॥ इदं देहमिदं गेहमियं लक्ष्मीरियं सुता । त्वदीयं सर्वमप्येतत्तद् ब्रूहि करवाणि किम् ॥५२७॥ दधिपर्णोऽवदद् नत्वा नलं, नाथोऽसि नाथ! मे । ' तत्प्रसीद ममान्यायकार्य सर्व सहस्व तत् ॥ ५२८ ॥ अत्रान्तरे च सार्थेशो धनदेवः समागमत् । द्रष्टुं भीमरथं भैम्योपलक्ष्य बहुमानतः ॥ ५२९ ॥ वसन्तमृतुपर्ण च तत्मियां तत्सुतामपि । सर्वानाऽनाययद् भैमी तत्मत्युपचिकर्षिया ॥ ५३० ॥ कृतसत्कृतयस्तेऽथ बन्धुवद् भीमभूभुजा । तस्थुः प्रमनसो मासमातिथेयर्नवनवैः ॥ ५३१ ॥ अन्यदा तेषु सर्वेषु सत्सु भीमस्य संसदि । कश्चिदगाद् दिवो देवः स भैमीमभ्यधादिति ॥५३२॥ 'भद्रे! कुलपतिः सोऽहं यस्त्वया बोधितः पुरा । विमाने केशरेऽभूवं नाम्ना श्रीकेशरः सुरः ॥५३३॥ त्वत्प्रसादादसौ प्राप्ता देवद्धिद्धिवैभवा ।। उक्त्वेति दृष्टा स्वर्णस्य सप्तकोटीस्तिरोदधे ॥५३४॥ भीमर्तुदधिपर्णश्रीवसन्ताधा नरेश्वराः। नलं राज्येऽभिषिषिचुः श्राद्धा विम्बमिवाहतम्।।५३५॥ खानि स्वानि नलादेशाद् बलानि सबलानि ते । हेलया मेलयामासुर्भूभुजो भुजशालिनः ॥ ५३६ ॥ ततः परबलद्वेषी मूर्तिमान् मेघवाहनः । चचाल पृथिवीपालो नलः सबलवाहनः ॥ ५३७ ॥ दिनैः कतिपयैः सैन्यमदैन्यः संन्यवेशयत् ॥ अयोध्यावहिरुद्याने नामतो रतिवल्लभे ॥ ५३८ ॥ .