________________
- षष्ठः सर्गः। आरूढा फलितं चूतं तदादेशात् तयाऽम्बुजम् । हस्तेऽर्पितं च मे, पक्षी पुराऽऽरूढोऽपतत् ततः॥५१३॥ भीमोऽवोचत् सुते ! स्वप्नो मनोज्ञोऽयं तथा सौ । देवता पुण्यराशिस्ते उद्यानं राज्यमद्भुतम् ।।५१४॥ चूतारोहः पतिसङ्गोऽपतत् पक्षीव कूबरः।। प्रातः स्वप्नेक्षणाद् मन्ये मिलिष्यत्यय ते नलः॥५१५॥
(युग्मम्) तदा पूरिगं कश्चिद् दधिपर्णमजिज्ञपत् ।। भीमोऽभ्यागम्य चालिङ्गयातिथ्यं कृत्वा तमब्रवीत् ५१६ सूर्यपाकां रसवतीं सूदस्ते वेत्ति कुब्जकः । तद् दर्शय ममाश्चर्य पूर्यतां वार्तयाऽनया ॥५१७॥ दधिपर्णोऽवदत् कुब्जं चक्रे रसवती स च । भीमोऽपि बुभुजे स्वादं विज्ञातुं सपरिच्छदः ॥५१८॥ स्थालमोदनसंपूर्ण तदानाय्य नलप्रिया । बुभुजेऽथ तदास्वादात् कुब्जं ज्ञातवती नलम् ॥५१९॥ पुरा मे ज्ञानिनाऽऽख्यातं भारते सूर्यपाकवित् । केवलं नल एवात्र तदयं निश्चितं नलः ॥ ५२० ॥ तदेष तिलकं कुर्वन्निव मां स्पृशतु द्रुतम् । नलाङ्गुल्या यतः स्पृष्टाऽहं स्यां पुलकमालिनी।।५२१॥ भैमीवक्षो नलोऽस्पृक्षदगुल्या च क्षणादभूत् । वपुः सरोजिनीनालमिवात्युत्कटकण्टकम् ॥ ५२२ ॥ निद्राणाऽहं तदाऽत्याजि यास्यसि काधुना पुनः । भैमीत्युक्त्वा करे धृत्वा नलं निन्ये गृहान्तरे ॥५२३।। नलो बिल्वकरण्डाभ्यां वसनाभरणादिकम् । परिधायाऽभवत् सद्यः सुरवद् निजरूपभृत् ॥ ५२४ ॥ यथारूपं नलं भैमी ताडयित्वा कटाक्षितैः । चित्तचौरं चिरात् प्राप्त भुजपाशैर्वबन्ध सा ॥५२५॥