________________
मल्लिनाथमहाकाव्येएक एव नलः पत्नी सती तत्याज यो वने ॥४७२॥ ऋजुमेकाकिनी सुप्तां प्रियामुत्सृज्य गच्छतः। विलीनौ भुवि लीनौ वा कथं पादौ न नैषधेः ॥४७३।। पुनः पुनरिति श्रुत्वा पठन्तं तं प्रियां स्मरन् । नलो रुरोद नेत्रोदबिन्दुस्यन्दितभूतलः ॥४७४।। किं रोदिषि द्विजेनेति प्रोक्ते प्रोचेऽथ कुब्जकः । त्वद्गीतं करुणास्फीतं कर्ण्यमाकर्ण्य रोदिमि ॥४७५॥ द्विजः कुब्जेन पृष्टश्च श्लोकार्थ, न्यगदत् कथाम् । द्यूतादारभ्य वैदर्भीगमनं कुण्डिनावधि ॥४७६।। अन्यच्च शुंशुमारेशदूतो भीमनृपाग्रतः। सूर्यपाकरसवांतत्त्वज्ञं त्वामचीकथत् ॥ ४७७॥ श्रुत्वेति त्वां नलं मन्यमाना भैमी व्यसर्जयत् । मामहं तु निरीक्ष्य त्वां गताशः खेदमासदम् ॥४७८॥ नलो न त्वमिति व्यर्थो मेऽभूच्छकुनसंचयः । पदमेतद् मुधा मन्ये शकुनो दण्डनायकः ॥४७९॥ . प्रियां ध्यायन् रुदन् कुब्जो नत्विा धाम तमब्रवीत् । महासत्त्व! कथाख्यातुःस्वागतं किं करोमि ते ॥४८०॥ इत्युक्त्वा स्नपयित्वाऽथ भोजयित्वा च तं द्विजम् । नेपथ्यं दधिपर्णेन दत्तं तस्मै ददौ ततः ॥४८१॥ कुशलस्तमनुज्ञाप्य कुण्डिनं पुरमाययौ । यथानिरीक्षितं कुब्जमाख्यद् भीमरथाय च ॥४८२॥ कुब्जस्य गजशिक्षादिवृत्तं दानावधि द्विजः। श्लोकश्रवणखेदं च भीमभैम्योः पुरोऽवदत् ॥४८३॥ भैम्यूचे तात ! दोषण कर्मणो भोजनस्य वा । रूपं सरूपं न प्राप्तो निश्चितं क्रियया नलः ॥४८४॥ नलं विनाऽस्ति नाऽन्यस्य गजशिक्षासु कौशलम् । . सूर्यपाकपरिज्ञानं दानं वाऽद्भुतमीदृशम् ॥४८५॥