________________
--षष्ठः सर्गः।
१९७ केनाऽपि तदुपायेन ताताऽत्राऽऽनय कुब्जकम् । यथा करोम्यहं तेन तं निरीक्ष्य परीक्षणम् ।।४८६॥ भीमोऽवदत् तवालीकं समारभ्य स्वयंवरम् । विसृज्य दूतमाकार्यो दधिपर्णः समुत्सुकः ॥४८७॥ ततस्तेन सहाऽऽगन्ता तव श्रुत्वा स्वयंवरम् । नारीनिकारं नान्योऽपि सहेत, किमु चेद् नलः ॥४८८॥ अश्वविद्याविदा तेनाऽऽनेष्यते दधिपणराट् । महाबलेन न चिरात् तूलपूल इवात्र सः ।। ४८९ ।। उक्त्वेति प्रेषितो दूतः शुशुमारेशमाह्वत । वो लग्नमिति श्रुत्वाऽभूद् दीनो जालगमीनवत् ।।४९०॥ तच्छ्रुत्वा कुब्जको दध्यौ भैमी नैच्छत् परं पतिम् । यदीच्छेत् तर्हि गृह्णीयात् कस्तां मय्यपि जीवति ।४२१॥ तद् द्रक्ष्यामीति सप्रीतिर्विलक्षं स्वापराधतः । पुनः स्वयंवराक्रोधि तदाभूद् नलमानसम् ॥४९२॥ . कुण्डिने दधिपर्ण च षडभिर्यामर्नयाम्यहम् । यथा प्रासङ्गिकं यानमनेन सह संभवेत् ॥ ४९३ ।। ध्यात्वत्युवाच राजानं ब्रूहि खेदस्य कारणम् । स्थगितानां मौक्तिकानां नार्यः संजायते यतः ॥४९४।। नृपोऽअदद् यशःशेषो नलोऽभूत् श्वः स्वयंवरः।। वैदा भविताऽऽहूतः षड्याम्या याम्यहं कथम्।४९५/ कुब्जो जगाद भूपाल ! विषादं मा कृथा वृथा । ' अश्वान् समार्पय रथं कुण्डिनं त्वां नये लघु ॥४९६।। गृहाण स्वेच्छयेत्युक्ते राज्ञा कुब्जोऽग्रहीद् रथम् । . सर्वलक्षणसंपूर्णी जात्यावश्वौ च स स्वयम् ॥४९७।। सर्वत्र विज्ञं विज्ञाय तं दध्यौ दधिपर्णराट् । असावनन्यसामान्यो सुरो विद्याधरोऽथवा ॥४९८।। रथं विधाय युक्ताऽश्वं कुब्जो नृपमवोचत ।. ... ... ..