________________
१९५
षष्ठः सर्गः ।
अन्यदा कुब्जमेकान्तस्थितमूचे क्षितीश्वरः । कत्वं कुतः क वास्तव्यो निवेदय ममाग्रतः १ ॥ ४५९॥ कुब्जश्वाख्यत् कोशलायां नलभूपस्य सूपकृत् । हुण्डिकाख्यः समीपेऽस्य मया संशिक्षिताः कलाः । ४६० । नलः पराजितो द्यूते कूबरेणाऽखिलां भुवम् । बभूव भैमीमादाय वनवासी मुनिर्यथा ।। ४६१ ॥ व्यपद्यत नलस्तत्राऽहं तु त्वां समुपागमम् 1 कूबरं न तु शिश्राय गुणहीनं च वञ्चकम् ॥ ४६२ ॥ तया च वार्तया भूपः क्रन्दित्वा करुणस्वरम् । नलमेतक्रियां कुर्वन् कुब्जेनैक्ष्यत सस्मितम् ||४६३ ॥ दधिपर्णनृपोऽन्येद्युर्द्धतं केनाऽपि हेतुना । प्रैषीद् मित्रत्वतवैषी कुण्डिनेश्वरसन्निधौ || ४६४ ॥ दूतोऽन्यदाऽऽख्यद् भीमाय मदीयस्वामिनोऽन्तिके । सूर्य पाकर सवतीविदस्ति नलसूपकृत् ।। ४६५ ॥ तदाकर्ण्य तदोत्कर्णा दवदन्त्यवदद् नृपम् । तात ! प्रेष्य चरं विद्धि कीदृग्रूपः स सूपकृत् ? ।।४६६ ॥ ततः स्वामिसमादेशकुशलं कुशलं द्विजम् । समाहूय समादिक्षद् नृपतिर्नलशुद्धये ।। ४६७ ॥ स पृथं पृथिवीनाथाऽऽदेशं प्राप्याऽचलद् द्विजः । शुंशुमारपुरं प्राप शकुनैः सूचितप्रियः ।। ४६८ ॥ अव्रजत् कुब्जकाभ्यर्णे प्रच्छं प्रच्छमतुच्छधीः । निषण्णश्च विषण्णश्च तं प्रेक्ष्य विकृताकृतिम् ||४६९ ॥ अध्यायत् क नलः कैष के स्वर्ण क च पित्तलम् ? | तन्नभ्रान्तिरेतस्मिन् भीमपुत्र्या वृथैव हि ||४७० ॥ निश्चिनोमि तथाप्येनमिति चित्ते विचिन्त्य च । नलापश्लोकयुगलं स श्लोकयुगलं जगौ ||४७१ ॥ पापिष्ठानां निकृष्टानामसच्चानां शिरोमणिः ।