________________
मल्लिनाथमहाकाव्ये
गजश्च गर्जन पर्जन्य इवाऽभ्यागाद् नलं प्रति ॥ ४४५ ॥ म्रियते म्रियते कुब्ज इति लोके वदत्यपि । शिक्षावशेन खेदित्वा वशीचक्रे नलो द्विपम् ।। ४४६ ॥ वैनतेय इवोत्पत्य तमारूढो मतङ्गजम् । आलोक्यमानो लोकेन तदाऽऽश्वर्यस्पृशा दृशा ॥ ४४७ ॥ भूपक्षिप्तस्वर्णमालाराजमानगलो नलः ।
१९४
व्यालमालानसंलीनं चक्रे नाड्योत्ततार च ॥ ४४८ ॥ अकृतप्रणिपातः सन्नुपान्ते नृपतेरसौ । उपाविशदथाऽमाक्षीदित्थं पृथ्वीपतिर्नलम् ॥। ४४९ ॥ गजशिक्षासुदक्षोऽसि वेत्स्यन्यदपि किञ्चन ? | स आचख्ये वे सूर्यपाकां रसवर्ती नृप ! ।। ४५० ॥ राजा कुब्जाय साथ तन्दुलादि तदाऽऽर्पयत् । यत्राकृतिस्तत्र गुणा इति व्यर्थ विचिन्तयन् ।। ४५१ ॥ विद्यां सौरीं स्मरन् मुक्त्वा चरून् सूर्यातपे नलः । दिव्यां रसवतीं निष्पादयांचक्रे क्षणादपि ॥ ४५२ ॥ बुभुजे सपरीवारो रसवत्या तया नृपः । श्रमच्छिदाकृतानन्दां तामास्वाद्याऽवदच्च सः ॥ ४५३ ॥ नलं विना रसवतीमीदृशीं वेत्ति नापरः । पुराऽप्यास्वादिता सेयं सेवमानेन तं मया ।। ४५४ ॥ तत्किं नलोऽसि नैतादृग् नलः क्रोशशताष्टकात् ? । काऽस्याऽऽगमः कचैकत्वं क च रूपविपर्ययः १ ॥४५५॥ अथ कुब्जाय भूपालोदाद् वस्त्राभरणादिकम् । टङ्कलक्षमपि ग्रामशतपञ्चकमादरात् ।। ४५६ ।। ग्रामग्रामं विमुच्यान्यत् सर्वं जग्राह कुब्जकः । राजा जगाद किं कुब्ज ! प्रयच्छामि तवापरम् १ ॥४५७॥ कुब्जोऽवोचद् निजाज्ञायां मद्याssखेटौ निवारय । राजाऽपि तत्तथा चक्रे तदभ्यर्थनया समुत् ॥ ४५८ ॥