________________
षष्ठः सर्गः
कथयिष्यामि ते दीक्षादिनं दैवज्ञवद् दिनम् । अन्यच्च श्रीफलं रत्नकरण्डं च गृहाण भोः ! ॥ ४३३ ॥ यदा कार्य स्वरूपेण प्रस्फोटयं श्रीफलं तदा । दृष्ट्वा तदन्तरे देवदृष्ये रत्नकरण्डकम् ।। ४३४ ।। उद्धाट्या भरणान्यस्य मध्ये वीक्ष्य क्षणादपि । परिदध्या यथारूपं देवरूपनिभं भवेत् ।। ४३५ । ( युग्मम् ) अपृच्छत्तं नलस्तात ! क स्नुषा तेऽवदत् सुरः । । ततः स्थानात् तदुदन्तं विदर्भागमनावधि || ४३६॥ अवोचच नलं वत्स ! किं भ्राम्यसि वनान्तरे । वियासति भवान् यत्र तत्र स्थाने नयाम्यहम् ॥४३७॥ ( युग्मम् )
?
नलोsवोचच्छुशुमारपुरं प्रापय मां प्रभो ! । देव एवं विधायाssa सुधाशनपदं ययौ ।। ४३८ ॥ नलोsपि तत्पुरोपान्तोद्याने चैत्यं व्यलोकयत् । तदन्तर्नमिनाथस्य प्रतिमां प्रणनाम च ।। ४३९ ॥ शुं शुमार पुरस्याऽन्तर्यावद् विशति कुब्जकः । तदालानं समुन्मूल्य भ्राम्यति स्म मतङ्गजः ॥ ४४० ॥ स्फुरन्तं नाघिसेहे स समीरमपि तीरगम् । आचकर्ष करेणोच्चैः सनीडनीडजानपि ।। ४४१ ॥ गजाजीवा गजस्याऽस्य पृष्ठिं दूरेण तत्यजुः । उद्यानवृक्षानाक्षेपात् स बभञ्ज प्रभञ्जनः || ४४२ ॥ भूपतिर्दधिपर्णोऽथ क्षिप्रं वमोपरि स्थितः । मत्तं मतङ्गजं कर्तुमसमर्थो वशंवदम् ॥ ४४३ ॥ अवादीदिति विस्पष्टं गजं यः कुरुते वशम् । ददामि वाञ्छितं तस्य कोऽप्यस्ति द्विपशिक्षकः ॥ ४४४ ॥ कुब्जस्तद्वाक्यमाकर्ण्य करिणं प्रत्यधावत ।
4.M
ܕ
१९३