________________
मल्लिनाथमहाकाव्ये
दवदन्त्यपि हि द्यूतादारभ्याऽकथयत्कथाम् । ..... निजनेत्रपयःपूरैस्तन्वन्ती पङ्किलामिलाम् ॥३९३॥ राजा निजोत्तरीयेण तस्याः संमायं लोचने । उवाच वत्से ! मा रोदीः कश्चिदेवादली न हि ॥३९४॥ अत्रान्तरे सुरः कश्चित् स्वर्गादागत्य संसदि । तत्रोचे भीमतनयां विनयाद् रचिताञ्जलिः ॥ ३९५ ॥ स्वामिन्यहं तवादेशात्तस्करः पिङ्गलाह्वयः। प्रव्रज्य विहरन् यातः श्रीतापसपुरेऽन्यदा ॥३९६॥ श्मशानमध्ये माध्यस्थ्येनाऽस्थां प्रतिमया ततः । चितानलोऽनिलोद्भूतो मदेहमदहत् तदा ॥ ३९७ ॥ तथापि धर्मध्यानस्थो विधायाऽऽराधनामहम् । पिङ्गलो नामधेयेनाऽजनि स्वर्गे सुरोत्तमः ॥ ३९८ ॥ त्वां नन्तुमागतो ज्ञात्वाऽवधिज्ञानाद् महासति ! । त्वयाऽस्मि रक्षितः साक्षात् शिक्षितो दीक्षितोऽस्म्यहम् ॥ तव पादप्रसादेनाऽऽसदं स्वर्गसदां पदम् । इत्युक्त्वा स्वर्णकोटीः स सप्त दृष्ट्वा तिरोदधे ॥४०॥ तच्छ्रुत्वा चाद्भुतं भूपः सप्रत्ययमनत्ययम् । अधर्ममर्मव्यथकं प्रपेदे धर्ममार्हतम् ॥ ४०१ ॥ हरिमित्रोऽन्यदा चन्द्रयशसा सहितं नृपम् । अनुज्ञाप्याऽनयद् भीमतनयां कुण्डिनं प्रति ॥४०२॥ आगच्छन्ती सुतां श्रुत्वाऽभ्यागमद् भीमभूपतिः । वाजिना वायुवाजेन स्नेहेन च पुरस्कृतः ॥ ४०३ ॥ आयान्तं पितरं वीक्ष्य भैमी चरणचारिणी। तत्पदाम्भोजयोः स्मेरमुखाम्भोजाऽपतत्ततः ॥४०४॥ तयोर्मिलितयोर्नेत्रनीरैः प्रसृमरैस्तदा। भूरिपङ्काऽभवद् भूमिः पयोदसमये यथा ॥ ४०५॥ पुष्पदन्ती तदायातां दवदन्तीं निजागजाम् ।