________________
षष्ठः सर्गः।
१८९ किमेष नैषधेर्धर्मस्तत्कुले वा कुलीनता । .. महासती प्रिया मार्गे त्यज्यतेऽलज्जचेतसा ॥३८०॥ तव दुःखानि गृह्णामि कुर्यां भ्रामणकं तव । मम मन्तुं क्षमस्वैनं यन्मया नोपलक्षिता ॥ ३८१ ।। तमोविधुन्तुदच्छेदः कृष्णपक्षनिशास्वपि । क वा विशेषको बाले! तव भाले सहोद्भवः ।।३८२॥ इत्युक्त्वा स्वमुखाम्भोजनिष्ठीवनजलेन सा । भैम्या ललाटं माटि स्म जघ्रौ मूर्ध्नि पुनः पुनः॥३८३॥ शशीवाम्भोदनिर्मुक्तः प्रदीप इव बोधितः । विशेषको विशेषेण तत्क्षणं दिद्युते युता ॥ ३८४ ॥ ततश्चन्द्रयशा देवी स्वपाणिभ्यां नलप्रियाम् । गन्धोदकैरनपयत् तां साक्षादिव देवताम् ॥३८५।। वसने श्वेतममृणे चन्द्रिकानिर्मिते इव ।। देव्या समर्पिते भैमी ततः परिदधे मुदा ॥ ३८६ ॥ देवी करे गृहीत्वा तां निषसाद सदस्यथ । ऋतुपर्णान्तिकेऽयासीत् तदा चास्तं गतो रविः॥३८७॥ तदा च तमसाऽपूरि निःशेषमपि पुष्करम् । वर्षासु वारिपूरेण वामलूर इवाधिकम् ॥३८८॥ सभायां भूपतेनैव प्रविवेश तमीतमः । वारितं भीमजापुण्ड्रतेजोभिर्वेत्रिभिर्यथा ॥ ३८९ ।। उवाच राजा यातेऽस्तं पद्मिनीप्राणवल्लभे । दीपिकाया अभावेऽपि देवि कौतस्कुती ध्रुतिः॥३९॥ राज्ञी जन्मोद्भवं भैम्यास्तिलकं तददर्शयत् । कौतुकात् तत् प्यधाद्राजा सदश्च तिमिरं तदा ॥३९१॥ दूरेकृत्य ततः पाणिमृतुपर्णनरेश्वरः। पप्रच्छ पितृवद्राज्यभ्रंशप्रभृतिका कथाम् ॥३९२॥ १ दिवाकर एतदपि । २ सदसि ध्वान्तमप्यभूत् , इदमपि ।