________________
१८८ मल्लिनाथमहाकाव्ये
सोऽवोचत्कुशलं देव्या नलभैम्योस्तु चिन्त्यताम्।।३६६।। किं अवीषीति भणितो देव्या वाक्यपटुर्बटुः । घूतप्रभृतिका कर्णव्यथिकां न्यगदत् कथाम् ॥३६७।। ततश्चन्द्रयशा देवी रुदती तत्र संसदि । नेत्रयोः कज्जलमिव प्रमोदं निरवासयत् ॥ ३६८॥ तत्सर्व दुःखितं प्रेक्ष्य बुभुक्षाक्षामकुक्षिकः । बटुः सत्रं ययौ यस्माद् भोज्यं हि प्रथमं फलम् ॥३६९॥ निविष्टस्तत्र भोज्याय भोज्यशालाधिकारिणीम् । निजस्वामिसुतां वीक्ष्य तामुपालक्षयच्च सः॥३७०॥ ववन्दे चरणौ देव्याः स्फुरद्रोमाञ्चकञ्चुकः । विकासिनयनाम्भोजो विस्मृतक्षुदुवाच च ॥३७१॥ केयं तव दशा देवि ! दवान्तव्रततेरिव । यत् सूत्रयसि सत्रेच कर्म कर्मकरोचितम् ॥३७२॥ दिष्टया दृष्टिपथं याता जीवन्तीत्यभिधाय सः। उत्थायावर्धयच्चन्द्रयशोदेवीमवीतधीः ॥ ३७३ ॥ अस्ति स्वस्तिमती दानशालायां देवि ! भीमजा । सत्रेऽकुण्ठसमुत्कण्ठाऽऽयाता चन्द्रयशास्ततः ॥३७४॥ देवी चन्द्रयशा भीमनन्दिनी नेत्रनन्दिनीम् । आशिश्लेष चिरायातनलिनीमलिनी यथा ॥३७५॥ ऊचे च क्त्से ! सुव्यक्तैर्लक्षणैर्लक्षिताऽपि हि । नैवोपलक्षिताऽसि त्वं धिग् मामज्ञानवश्चिताम्।।३७६॥ त्वयापि हि कथङ्कारं वञ्चितास्मि गतस्मये ।। दुर्दशायामागतायां का लज्जा मातृमन्दिरे ॥३७७॥ वत्से ! नलस्त्वया मुक्तस्त्वं मुक्ताऽसि नलेन वा । तेन त्यक्ताऽसि, तं तु त्वं महासति ! न मुञ्चसि॥३७८॥ त्वं चेत् त्यजसि दुर्दैवादवस्थापतितं पतिम् । ततः सुधारुचेविम्बात्कृशानुकणवर्षणम् ॥ ३७९ ॥