________________
१८७
षष्ठः सर्गः । संबोधितो यशोभद्रसूरिणा स कथंचन । सप्तरात्रोपवासान्ते बुभुजे सपरिच्छदः ॥ ३५३ ॥ वसन्तश्चान्यदा देवि ! गतः कूबरभूपतिम् । ढोकनस्य ढोकनेन तुष्टोऽस्मै नरनिर्जरः ॥ ३५४ ॥ दत्त्वा छत्रादिकं चक्रे तं तापसपुरेश्वरम् । वसन्तः श्रीशेखर इत्यभिधां चापि भूपतिः ॥३५५॥ विसृष्टो भूभुजा भम्भापिकीस्वरविकस्वरः । वसन्तपुरमायासीजनचित्तद्रुतोषकृत् ॥ ३५६ ॥ भवदीयप्रसादेन दवदन्ति ! महासति !। राज्यं प्रकुरुते प्राज्यं स तापसपुरेश्वरः ॥ ३५७ ॥ भैम्यूचे निजदुष्कर्ममर्मभेदनकर्मठम् । व्रतं गृहाण सोऽप्यूचे करिष्ये तव भाषितम् ॥३५८॥, तत्रायातं साधुयुग्मं प्रतिलम्भ्य च भीमजा । अवादीद्यद्ययं योग्यस्तदस्मै दीयतां व्रतम् ॥३५९॥ तेन योग्य इति प्रोक्ते ययाचे पिङ्गलो व्रतम् । सद्यो देवगृहे नीत्वा प्रव्रज्यां ग्राहितश्च सः॥३६०॥ अन्यदा कुण्डिनेशेनाऽश्रावि यनलभूपतिम् । राज्यं द्यूते हारयित्वा कूवरो निरवासयत् ॥ ३६१ ॥ स विवेश महारण्ये दवदन्त्या सहैव हि । मृतो जीवति वा नैवं ज्ञायते काऽप्यसौ गतः ॥३६२।। पुष्पदन्त्यपि राज्ञी तं श्रुत्वा भीमरथाद् नृपात् । अरोदीद्रोदयन्ती सा रोदसी प्रगुरुवरम् ॥ ३६३ ॥ ततो भीमरथो राजा हरिमित्राभिधं बटुम् । निदिदेश प्रतिदिशं तयोः शुद्धिनिबन्धनम् ।। ३६४ ॥ सर्वत्र शोधयंस्तौ तु सोऽथाऽचलपुरे ययौ। अपश्यद् भूपतिं चन्द्रयशसाअच्छि चाऽऽदरात् ।।३६५॥ कच्चित् सपरिवारायाः कुशलं मामकस्वसुः । .