________________
मल्लिनाथमहाकाव्येसर्वत्र क्षत्रधर्मोऽयं नीतिमार्गप्रवर्तकः । कार्ये यद् भूभुजा दुष्टशिष्टनिग्रहपालने ॥३४०॥ करं हि गृह्णता राज्ञा रक्ष्यः सर्वोऽप्युपद्रवः । अन्यथा तेन पापेन लिप्यते भूपतिः स्वयम् ॥३४१॥ पुत्रि ! चेदस्य चौरस्य निग्रहं न करोम्यहम् । तन्निर्भयो जनः सर्वः सर्वस्खं हरति द्रुतम् ॥३४२॥ भैम्यूचे तात ! मदृष्टौ चटितः सन् शरीरभृत् । मार्येत परमाहत्यास्तन्मे कीदृक् कृपालुता ? ॥३४३॥ तदयं क्षम्यतां मन्तुर्यन्मां शरणमाश्रितः। धर्मपुच्या वचनेन तं स्तेनममुचद् नृपः ॥३४४॥ मुक्तमात्रः स तां मेने जननी नतमस्तकः । प्राणदानोपकारं तं स्मरनित्यं नमोऽकरोत् ॥३४५।। भैमी तमन्यदाऽपृच्छत् कोऽसि त्वं कुत आगतः १ । स ऊचे तापसपुरे वसन्तस्याऽस्मि कर्मकृत् ॥३४६॥ पिङ्गलो नामतः सोऽहं व्यसनस्यैकमन्दिरम् । जग्राह खात्रखननात्तस्य सर्वस्वमन्यदा ॥३४७॥ मार्गे गच्छन् सलोत्रश्च लुण्टाकै ण्टितोऽस्म्यहम् । स्वगुरुस्वामिमित्रस्त्रीद्रोहिणं कुशलं कियत् ? ॥३४८॥ अत्राऽऽगत्यर्तुपर्ण च सेवमानः कुधीरहम् । अपश्यमन्यदा रत्नसमुद्गमहरं ततः ॥३४९॥ स्वमाच्छायोत्तरीयेण निर्गच्छन् भूभुजा स्वयम् । विज्ञातोऽस्मि न हि प्रज्ञावतामज्ञातमस्ति किम् ॥३५०॥ नृपादेशात्तलाध्यक्षबद्धोऽथ वधहेतवे । नीयमानस्त्वामपश्यं मोचितोऽस्मि त्वयाऽनघे ॥३५१॥ किश्च तापसनगराद्गतायामीश्वरि ! त्वयि । ज्वरात इव तत्याज भोजनं सार्थनायकः ॥३५२॥ १ मास्थितः इति च।