________________
षष्ठः सर्गः ।
देवी भैमीमुवाचाथ भद्रे ! मम निकेतने । पुत्री चन्द्रवतीव त्वं सुखं तिष्ठ शुभाशये ! || ३२७॥ देवी चन्द्रवतीमूचेऽन्यदा भैमीव भात्यसौ । कथमीदृगवस्था स्यात् तस्याः सा हि नलमिया १ ॥ ३२८ ॥ योजनानां शते सार्धे तस्या आगमनं कुतः ? | ततो मदीयजामेयी नेयं, सादृश्यमस्ति तु ॥ ३२९ ॥ सा च राज्ञी चन्द्रयशा ददौ दानं निरन्तरम् । दीनदुःस्थित पात्रेभ्यो नगरस्य बहिर्भुवि ॥ ३३० ॥ राज्ञी व्यपि वैदर्भ्याऽन्यदा दानं ददाम्यहम् | अत्र सत्रे कुतोऽप्येति पतिर्यदि पुनर्मम ।। ३३१ ॥ तदाssवपि तदादेशाद् दवदन्ती यथास्थिति । ददौ दानं खेदसहा नलाऽऽगमनवाञ्छ्या ॥ ३३२ ॥ सा प्रत्येकमपृच्छच्चाऽनुदिनं दानवाञ्छिनम् । seite पुमान् कोऽपि भवद्भिः काऽप्यदृश्यत । ॥ ३३३ ॥ सत्रस्था सान्यदा चौरमपश्यत् तलरक्षकैः । बद्धं पुरो नीयमानं रसद्विरसडिण्डिमम् ||३३४॥ तलाध्यक्षान पृच्छच्च भीमजाऽनेन कीदृशः । अपराधोऽत्र विदधे वध एवंविधोऽस्य यत् १ ॥ ३३५ ॥ चन्द्रवत्या जहारैष पापो रत्नसमुद्रकम् । तेनासौ कर्मणा वध्यभूमिकां देवि ! नीयते ॥ ३३६ ॥ चौरो भैमीं प्रणम्योचे त्राणं स्वामिनि ! मे भव । भैम्यप्यभयदानेनाऽभ्यनन्दत् तं मलिम्लुचम् ||३३७॥ सतीत्व श्रावणापूर्व त्रिर्जलाच्छोटनेन सा । तद्वन्धांस्त्रोटयाश्ञ्चक्रे तुमुलोत्थितो महान् ||३३८॥ तच्छ्रुत्वा ऋतुपर्णोऽथ जगाम सपरिच्छदः । विस्मितः सस्मितं भैमीमवदद् वदतां वरः ॥ ३३९॥
१८५
१ शुभाशयैरित्यपि ।
२४