________________
१८४ मल्लिनाथमहाकाव्ये
निर्गत्य वाप्यास्तत्मान्तवलभ्यां सा न्यविक्षत॥३१३॥ तत्र राड् ऋतुपर्णोऽस्ति तस्य चन्द्रयशाः प्रिया । तत्कुम्भदास्य आनेतुं वारि वाप्यां समागमन् ॥३१४॥ मिथो हसन्त्यो बिभ्रत्यः स्वमूर्धमुकुटान् कुटान् । तास्तां निरूपयामासू रूपतो देवतामिव ॥३१५॥ असरूपं च रूपं च वीक्षमाणाः शनैः शनैः । विविशुश्च निरीयुश्च निर्निमेषविलोचनाः ॥३१६॥ चेव्योऽथ कथयाश्चक्रुर्गत्वा परमया मुदा । तां देव्यै चन्द्रयशसे प्राप्तां कल्पलतामिव ॥३१७॥ ऊचे चन्द्रयशाश्वेटीः समानयत तामिह । चन्द्रवत्याः सुताया मे भविता भगिनीव सा॥३१८॥ वापीसमीपे यातास्ता नगराभिमुखी ततः। वीक्षामासुर्भीमसुतां मूर्तामब्धिसुतामिव ॥३१९॥ ऊचुश्च, ऋतुपर्णस्य देवी चन्द्रयशोऽभिधा। त्वामाह्वयति पुत्रीत्वस्नेहमादधती हृदि ॥३२०॥ तद् देहि दुःखं दुःखेभ्यः स्वामिनीसविधे चल । छलं ते शून्यचित्ताया भूतादिभ्योऽन्यथा भवेत् ॥३२१॥ इति तद्वचसाऽचालीदालीढा स्नेहतन्तुभिः। ताभिविनीतवाक्याभिर्भूपावासमनीयत ॥३२२॥ न चन्द्रयशसं मातृष्वसारं वेत्ति भीमजा । बाल्यदृष्टां भागिनेयीं देवी चन्द्रयशा अपि ॥३२३॥ दूरतोऽपि परं धर्मपुत्रीप्रेम्णा ददर्श ताम् । इष्टेऽनिष्टे च यद् रागविरागौ तनुते मनः ॥३२४॥ गाढं चन्द्रयशोदेव्या सखजे नलवल्लभा । वैदर्भी तु ववन्दे तत्पादौ विनयवामना ॥३२५॥ पृष्टा देव्या च काऽसि त्वं कथयामास भीमजा। यत्पुरा सार्थनाथाय तदेव हि सवाष्पडकू ॥३२६॥