________________
१८३
षष्ठः सर्गः ।
नमस्कारं पठन् कश्चिच्छ्राद्धः साधर्मिको मम । पार्श्वस्य सोदरस्येव गच्छामि भवदाज्ञया ॥ ३०० ॥ सार्थेशेन स्वपित्रेव सह भैमी तदाश्रयम् । ययौ श्राद्धमपश्यच्च कुर्वाणं चैत्यवन्दनम् ॥ ३०९ ॥ आचैत्यवन्दनं तत्र तस्थुषी नलवल्लभा । ददर्श च ववन्दे च विनीलं बिम्बमर्हतः || ३०२ ॥ अपृच्छद् भीमजा भ्रातर्विम्बं कस्यैतदर्हतः १ | स आख्यद् यामे ! श्रीमल्लेस्तीर्थपस्य भविष्यतः ॥ ३०३ ॥ एतद्विम्बं पूजयामि यतस्तत्कारणं शृणु । काञ्चीपुर्या वणिगस्मि ज्ञानी तत्रैकदाऽऽगमत् ||३०४॥ धर्मगुप्ताभिधस्तत्रोद्याने स समवासरत् ।
त्वामच्छि मया कस्मिंस्तीर्थे मे निर्वृतिर्विभो ! १ ॥ ३०५ ॥ सोचे च त्वं दिवश्च्युत्वा मिथिलानगरीश्वरः । प्रसन्नचन्द्रो भूत्वा श्रीमल्लितीर्थे हि सेत्स्यसि ॥ ३०६ ॥ ततः प्रभृत्यहं मल्लिनाथे भक्तिभरोद्धुरः । पटस्थं पूजयाम्येतद्विम्बं धार्मिकसत्तमे ! ||३०७॥ इत्याऽऽख्यायाऽवदद् भैमीं स्वसः ! का त्वं कुतोऽसि वा । तस्मै श्राद्धाय वृत्तान्तमस्याः सार्थाधिपोऽवदत् ॥ ३०८ ॥ श्रावकोऽपि हि तद्दुःखदुःख्यूचे मा कृथाः शुचम् । साथैशस्ते पिता भ्राता चाहं तिष्ठ सुखेन तत् ॥ ३०९ ॥ सार्थनाथोऽपि हि तत्प्रातः प्राप्तोऽचलपुरे पुरे । मुक्त्वा भीमसुतां तत्र जगाम स्वयमन्यतः ॥ ३१० ॥ तृषातुरा पुरद्वारवापीमध्यं विवेश च । लक्ष्यमाणाऽम्बुहत्रभिः सा साक्षादिव देवता ॥ ३११ ॥ वामं तस्याः क्रमं गोधा जग्राह जलमध्यगम् । त्रिर्नमस्कार पठनप्रभावेण मुमोच च ।। ३१२ ॥ प्रक्षाल्याssस्यक्रमकरं वारि हारि निपीय च ।