________________
१८२ मल्लिनाथमहाकाव्ये
अर्हन् देवो गुरुः साधुज़ैनो धर्मो नलः पतिः ॥२८६॥ तच्छ्रत्वाऽस्या महासत्या वचनं तां प्रणम्य च । क्षणादन्तर्दधे स्वमसमायातेव राक्षसी ॥२८७॥ यान्त्यग्रे निर्जलामेकां नदीमैक्षत भीमजा । तृषासंशुष्यत्ताल्वोष्ठी गतनिष्ठीवनाऽवदत् ॥२८८॥ मम चेद् मानसं सम्यक् सम्यग्दर्शनवासितम् । तदत्र लोलकल्लोलविमलं जलमस्त्विति ॥२८९॥ इत्युक्त्वा पाणिना हत्वा भूतलं तत्क्षणाजलम् । आचकर्ष पपौ तच्च पीयूषपरिपेशलम् ॥२९०॥ ततो यान्ती परिश्रान्ता न्यग्रोधाऽधो न्यविक्षत । पान्थाः सार्थाऽऽगता दृष्ट्वा तामूचुः काऽसि सुन्दरि !?॥२९१॥ सोचे सार्थात् परिभ्रष्टा निवसामि वने ननु । यास्यामि तापसपुरं तद्वम मम कथ्यताम् ॥२९२॥ ते प्रोचुः शक्नुमो नैव मार्ग दर्शयितुं वयम् । आयान्ती सह गृह्णीमस्त्वां कापि हि पुरे पुनः॥२९३॥ तां तैः सह गतां सार्थे सार्थेशः करुणाम्बुधिः। धनदेवाधिपोऽपृच्छत् कासि किं वनवासिनी ॥२९४॥ भैम्याऽऽख्यद् वणिजः पुत्री पत्या सह पितुगृहे । चलिता शयिता रात्रौ त्यक्ता तेनाऽस्मि दैवतः।।२९५।। स्वबन्धुभिरिवैभिश्च त्वदीयपुरुषैः समम् । . समायातास्मि तत्कापि स्थाने वसति मां नय ॥२९६॥ सार्थनाथोऽवददहं गन्ताऽचलपुरे वरे । वत्से ! सह मया गच्छ जनकेनेव निर्भया ॥२९७॥ इत्युक्त्वा तां सार्थनाथो यानस्थामनयत्यधि । एकस्मिन्नद्रिकुळे च संनिवेशं न्यवीविशत् ॥२९८॥ भैमी तत्र स्थिता सुप्ता निशि शुश्राव केनचित् । पठ्यमानं नमस्कारं सार्थवाहमुवाच तु ॥२९९॥