________________
षष्ठः सर्गः ।
देशनान्ते मया पृष्टः प्रमाणं निजकाऽऽयुषः । पञ्चैव दिवसा इत्याचख्यौ च गुरुरेष मे ||२७३॥ श्रुत्वेति मां विषण्णाssस्यं प्रेक्ष्य प्राह गुरुः पुनः । नाऽभैर्गृहाण दीक्षां त्वं सैकाहमपि मुक्तिदा ॥२७४ ॥ प्रव्रज्याऽस्मादिहाऽऽयातः पर्वतेऽस्य निदेशतः । घातिकर्मक्षयादेव केवलज्ञानमासदम् || २७५ ॥ एवं वदन्नयोगिस्थः केवली सिंहकेसरी | हत्वा चत्वारि कर्माणि जगाम परमं पदम् ॥ २७६ ॥ चक्रे शरीरसंस्कारः सुरैस्तस्य शुभाशयैः । यशोभद्रान्तिके दीक्षामग्रहीत् तापसाधिपः ॥ २७७॥ दवदन्त्यप्युवाचैवं स्वामिन् । दीक्षां प्रदेहि मे । अवदच्छ्रीयशोभद्रो भोग्यं कर्माऽस्ति भैमि ! ते ॥ २७८ ॥ उत्तीर्य पर्वतात् तत्र नगरे पुरवासिनाम् । सम्यक्त्वाऽऽरोपणं चक्रे गुरुः श्रीशान्तिमन्दिरे ॥ २७९ ॥ धर्मध्यानपरा वस्त्रगात्रमालिन्यधारिणी । गुहागृहान्तरे निन्ये सप्ताब्दीं भीमनन्दिनी ॥ २८०॥ कश्चित् पान्थोऽन्यदा तस्यै कथयामास ते पतिः । मया दृष्टस्तदाकर्ण्य साऽभूद् रोमाञ्चदन्तुरा ||२८१ ॥ कर्णयोरमृतं कोऽयं निषिश्चति वदन्त्यदः । । भैमी तमन्वधाविष्ट स तु कापि तिरोदधे ॥ २८२॥ पान्थस्य च गुहायाश्च सा भ्रष्टा कष्टपूरिता । खिन्ना विन्ना महारण्ये निपपात नलप्रिया ॥ २८३ ॥ | वने निपतिता तस्थौ ययौ भूयो रुरोद च । किं करोमि क यामीति विमृश्य चलिता गुहाम् ||२८४|| दृष्ट्वा यान्ती च राक्षस्या मृगी सिंहिकयेव सा । प्रसारितवदनया ग्रसिष्य इति चौच्यत ॥ २८५ ॥ भैम्यूचे भव भग्नाशा त्वं राक्षसि ! ममास्ति चेत् । .
१८१