________________
१८०
मल्लिनाथमहाकाव्येजीवहिंसाकराः पापा जायन्ते दुःखभाजनम् ॥२५९॥ तदाकोऽहमध्यायं सर्वदा जीवघातकः । पापाऽऽत्माहं द्विजिह्वोऽस्मि का गतिर्भविता मम॥२६०॥ एवं च ध्यायतो मेऽभूत्क्षान्तिरुद्वीक्ष्य तापसान् । जातिस्मरणतोऽस्मा भवं ह्यःकृतकार्यवत् ॥२६१॥ ततो वैराग्यकल्लोलपरिप्लावितमानसः। आहारस्य परीहारमात्मना कृतवानहम् ॥ २६२ ॥ सोऽहं विपद्याऽऽद्यकल्पे देवोऽस्मि कुसुमप्रभः । नाम्ना विमाने कुसुमसमृद्धे त्वत्प्रसादतः ॥ २६३ ॥ अभविष्यद् न ते धर्मवचनं चेच्छ्रवोऽतिथिः । कुत्राऽगमिष्यं पापात्मा तदाऽहं दुर्गतौ गतौ ॥२६४॥ अवधिज्ञानतो देवि ! ज्ञात्वा त्वामुपकारिणीम् । समागमं धर्मीले ! धर्मपुत्रोऽस्म्यहं तव ॥ २६५ ॥ इत्युक्त्वा तापसानूचे स तापसवरः सुरः। मदीयकोपाऽऽचरणं क्षमध्वं परमाताः ! ॥२६६ ॥ प्रोच्येति तदहेर्वम॑ कृष्ट्रा गिरिगुहागृहात् । उल्लम्ब्योवाच कोपी स्यात् सर्पोऽहं कर्परो यथा २६७॥ तदा परमवैराग्याद् नत्वा केवलिनं मुनिम् । तापसानामधिपतिर्ययाचे व्रतमादरात् ॥ २६८ ॥ . केवल्याख्यद् यशोभद्रमुरिदास्यति ते व्रतम् । गुरुर्ममाप्यपृच्छच्च ज्ञानिनं कुलपः पुनः॥२६९ ॥ किं तारुण्यभरे दीक्षा गृहीता भावतः प्रभो ! । केवल्यूचे कौशलेशः कूबरोऽस्ति नलानुजः ॥२७०॥ तस्याऽस्म्यहं सुतः, सङ्गानगरीशश्च केशरी। अदाद् मह्यं निजां पुत्री बन्धुमत्यभिधानिकाम् ॥२७१॥ पित्राऽऽदेशादहं तत्र गतस्तां परिणीय च । अध्वन्यागच्छता सूरिदृष्टोऽयं मूर्तिमान् शमः ॥२७२॥