________________
षष्ठः
सर्गः 1
१७९
तं वन्दित्वा तदीयांsहिमूले न्यषददादरात् । यशोभद्गुरुस्तस्य तं नत्वा स्थितवान् पुरः || २४६॥ सिंहकेसर्यपि ज्ञानी कारुण्यक्षीरसागरः । चकार देशनां क्लेशनिर्नाशनमहौषधीम् || २४७|| दुष्प्रापं प्राप्य मानुष्यं कार्य सफलमादरात् । देवपूजादयादानधर्मकर्मविधानतः ॥ २४८ ॥ धर्ममाख्याय स ज्ञानी प्रोचे कुलपतिं ततः । भैम्या यः कथितो धर्मः स विधेयः सदा हृदि ॥ २४९ ॥ अनया हि तदा रेखाकुण्डे वारिधरो धृतः । अस्याः सतीत्वात् सांनिध्यं कुर्वते देवता अपि ॥ २५० ॥ सार्येशस्यास्य सार्थश्व स्तेनेभ्यो रक्षितोऽनया । तदियं नान्यथा ब्रूते दवदन्ती महासती ॥२५१॥ तदा च कश्चिदागत्य ततः केवलिनं नतः । भैमीमुवाच भद्रेऽस्मिन् वनेऽहं तापसोऽभवम् ॥ २५२॥ कर्परो नामतः सोऽहं पञ्चाग्नितपसोत्कटः । वचसाऽपि न सानन्दं तापसाः किं नु मां व्यधुः १ २५३ निर्गतोऽहमहंकारात् तत्संत्यज्य तपोवनम् । गच्छन् समुत्सुको रात्रौ पतितोऽस्म्यद्रिकन्दरे ॥ २५४॥ गिरिदन्तास्फालितस्य दन्ताः सर्वेऽपि मेऽपतन् । सप्तरात्रं स्थितो वार्तामपि चक्रुर्न तापसाः ॥२५५॥ गते मय्यभवत् तेषां सुखं प्रत्युत मे ततः । तेषामुपरि कोपोऽभूद् गिरिदाह सहोदरः || २५६ ॥ ज्वलत्कोपेन त्वाऽहमिहारण्येऽभवं कणी । त्वां दंष्टुं धावितोऽपाठि नमस्कारस्त्वयाऽनघे ! ॥ २५७ ॥ कर्णाssगतेन तेनाsहं जाङ्गुल्येवान्यतोऽगमम् । भेकादिजीवाहारेण जीवामि च बिले स्थितः ॥ २५८ ॥ अन्यदेत्थं कथ्यमानं त्वयाऽश्रौषमहं शुभे ।।