________________
मल्लिनाथमहाकाव्ये
तस्थुस्तथोन्मुखा अब्दशब्दं श्रुत्वेव केकिनः ॥ २३२ ॥ अनवच्छिन्नमम्भोभिरम्भोऽम्भोदस्तथाऽमुचत् । तापसाच मिथः प्रोचुः क वृष्टिर्वञ्च्यतामसौ ॥ २३३ ॥ त्रस्तांस्तान् वीक्ष्य भैम्यूचे हंहो ! मा भैष्ट तापसाः ! | कुण्डं तत्परिधौ कृत्वेत्युवाच च सतीतमा ||२३४ || सती यद्यस्म तत्कुण्डादन्यतोऽब्दः प्रवर्षतु । तयेत्युक्ते तृणच्छन्न इव कुण्डेऽम्बु नाऽपतत् ॥ २३५॥ वर्षत्यब्दे तथा शैलः सर्वतो निर्जरोऽभवत् । उपत्यका गिरेनरपूरेणेव च निर्मिता ॥ २३६ ॥ तेऽध्यायन रूपशक्तिभ्यां भात्यसौ देवतेव नः । पप्रच्छ सार्थवाहस्तां को देवः पूज्यते त्वया १ ॥ २३७॥ तस्मै भैम्याऽऽख्यदर्हन्तं सर्वज्ञं त्रिजगद्गुरुम् । पूजयन्त्यहमस्म्यत्र श्वापदेभ्यो विभेमि न ॥ २३८ ॥ स्वरूपमर्हतो धर्ममार्हतं च दयापरम् ।
१७८
सार्थवाहाय साssचख्यौ स च तं प्रत्यपद्यत ॥ २३९ ॥ निजधर्मविरागेण तं धर्म तापसा अपि ।
प्रत्यपद्यन्त को रत्नलाभे काचं न हि त्यजेत् १ ॥ २४०॥ सार्थवाहः पुरं तत्र तापसानां प्रबोधतः । आख्यया तापसपुरमिति ख्यातं विनिर्ममौ ॥ २४९॥ कृतार्थीकर्तुमर्थं स्वं स सार्थेशः समर्थधीः । अर्हतः शान्तिनाथस्य तत्र चैत्यमचीकरत् ॥ २४२ ॥ सार्थतापस लोकोऽस्थात् तत्राऽर्हद्धर्मकर्मठः । निशीथे स्वन्यदा भैमी तेजोऽपश्यच्छिलोच्चये ॥ २४३॥ आगच्छतो गच्छतश्चाऽद्राक्षीद् देवाऽसुरानपि । तत्तथाऽपश्यदुत्पश्यः पुरलोकोऽपि विस्मितः ॥ २४४॥ सवणिक्तापसा भैमी समारूढाऽथ पर्वतम् । मुनिं केवलिनं तत्राऽपश्यच्च सुरसेवितम् ॥ २४५ ॥