________________
षष्ठः सर्गः। उवाच भक्षयिष्यामि त्वामेवं राक्षसोऽवदत् । अभीता साऽवदद् धैर्याद् मदीयं वचनं शृणु ॥२२०॥ मृत्युभीरकृतार्थानां कृतार्थाया न मे भयम् । मा मां संस्पृश, शापेन संस्पृशन् न हि नन्दसि ॥२२१॥ धीरां वाचमिति श्रुत्वा तस्याः स रजनीचरः । उवाच तुभ्यं तुष्टोऽस्मि किं करोमि ददामि किम्? २२२॥ सोचे तुष्टस्तदाऽऽख्याहि कदा मे पतिसङ्गमः । रक्षोऽवादीद् द्वादशाब्दे प्रवासदिवसाऽऽदितः॥२२३। समायातः स्वयं वेश्म पितुस्तव नलः किल । मिलिष्यति ततः खेदं हृदये मा कृथा वृथा ।।२२४॥
(युग्मम्) त्वं चेद् भणसि स्वत्तातसदनेऽथ नयाम्यहम् । सोचे सहाऽन्यपुंसाऽहं न यामि स्वस्ति तेऽस्तु तत् २२५ आविष्कृत्य निजं रूपं यथागतमथागमत् । जग्राहाऽभिग्रहानित्थं भैमी द्वादशहायनीम् ॥२२६॥ विकृती रक्तवासांसि ताम्बूलं च विलेपनम् । भूषां च न ग्रहीष्यामि नलस्य मिलनावधेः ॥२२७॥ गिरिदाँ तदाऽत्येतुं प्रादृषं भैम्यवास्थित । बिम्बं श्रीशान्तिनाथस्य निर्ममे मृण्मयं स्वयम् ॥२२८॥ खयमानीय पुष्पाणि तत्पूजयति भीमजा । तपःमान्ते च कुरुते पारणं प्राशुकैः फलैः ॥२२९॥ भैमीमपश्यन् सार्थेशोऽप्यागादनुपदं तदा । अर्हद्बिम्बं पूजयन्ती तां दृष्ट्वा मुमुदे हृदि ॥२३॥ तां नत्वा धरणीपृष्ठे निविष्टो भीमजाऽपि तम् । विधाय स्वागतप्रश्नं सार्थनाथमवार्तयत् ॥२३॥ तापसास्तत्र चाऽऽजग्मुः केऽपि चासन्नवासिनः ।
२३