________________
१७६
मल्लिनाथमहाकाव्येवदन्ती दवदन्ती ते समाकाऽपि तस्कराः। मन्यन्ते स्म तृणायाऽपि नैते दैवपराहताः ॥२०७॥ ततस्तदीयाहङ्कारतिरस्काराय भीमजा । क्षेमकाराय सार्थस्य हुंकारान् मुमुचे दृढान् ॥२०८॥ श्रुत्वा तदीयहुंकाराननश्यन्नथ दस्यवः। कोदण्डदण्डटकारात् कान्दिशीका द्विका इव ॥२०९।। सार्थेशोऽथावदद् नत्वा तां निनां जननीमिव । कासि भामिनि ! कस्माच्च परिभ्राम्यसि कानने१२१० सवाष्पलोचना चास्मै बान्धवायेव भीमजा । यथावस्थं स्ववृत्तान्तं सर्व कथितवत्यथ ।। २११ ॥ अवोचत् सार्थनाथस्त्वं स्वामिनी जननी च मे । खामिनी नलपत्नीति जननी जीवदानतः ॥ २१२ ।। तनिष्कारणबन्धोस्ते किकरोऽस्मीति संलपन् । नीत्वा पटगृहे तस्या वरिवस्यापरोऽभवत् ॥२१३॥ स्फूर्जथुध्वनिवद्गर्जन्नूर्जितं तर्जितोष्मकः । वृष्टिं चकार विस्तारिधारं धाराधरस्ततः ॥ २१४ ॥ स्थाने स्थाने परीवाहाः प्रवहन्तो बभुस्तदा । पान्थसार्थस्य रोधाय खातिका इव निर्मिताः॥२१५॥ तदा निरन्तरं वृष्टिरभवद् दिवसत्रयम् । दवदन्ती पुनस्तस्थौ सुखं सार्थेशमन्दिरे ॥२१६॥ विरते वारिदे वृष्टेर्दवदन्ती सती तदा । विहाय सार्थमेकाकिन्यपि यातवती ततः ॥२१७॥ प्रयान्ती पथि भैमी च कज्जलश्यामलद्युतिम् । कर्तिकानर्तनव्यग्रकरं पिङ्गलकुन्तलम् ।।२१८॥ ज्वालाकरालवदनं भयङ्करभयङ्करम् । मूर्त यममिवादाक्षीदू राक्षसं क्षुद्रमानसम् ॥२१९॥
(युग्मम्)